एशियाईक्रीडासु भारतस्य उत्तमं प्रदर्शनम्, पदकतालिकायां ३९ पदकैः सह द्वादशे स्थाने
नव दिल्ली, 28 सितंबरमासः (हि.स.)। जापानदेशस्य आइची नागोया नगरे प्रचलितेषु विंशतितमे एशियाईक्रीडास्पर्धासु भारतस्य शानदारं प्रदर्शनं निरन्तरं वर्तते। वार्तालेखनसमये भारतं यावत् ३९ पदकानि विजितवान् अस्ति, येषु ४ सुवर्णपदकानि, १७ रजतपदकानि, १८ कांस्
स्वर्ण पदक विजेता भारतीय महिला कबड्डी टीम


नव दिल्ली, 28 सितंबरमासः (हि.स.)।

जापानदेशस्य आइची नागोया नगरे प्रचलितेषु विंशतितमे एशियाईक्रीडास्पर्धासु भारतस्य शानदारं प्रदर्शनं निरन्तरं वर्तते। वार्तालेखनसमये भारतं यावत् ३९ पदकानि विजितवान् अस्ति, येषु ४ सुवर्णपदकानि, १७ रजतपदकानि, १८ कांस्यपदकानि च सन्ति। भारतं पदकतालिकायां सम्प्रति द्वादशमे स्थाने वर्तते।

भारतं हाङ्गझोऊ २०२३ इत्यत्र अभिलेखीयानि १०६ पदकानि विजितवान् आसीत्। अस्मिन् समये पञ्चशताधिकाः भारतीयक्रीडकाः पूर्वप्रदर्शनस्य अतिक्रमणस्य लक्ष्येण स्पर्धायाम् अवतीर्णाः सन्ति।

सुवर्णपदकविजेतारः

१. भारतीयमहिलाक्रिकेटदलम् — महिलाक्रिकेटम्

२. सुरुचिः सिंहः तथा कमलजीतः — दशमीटर् वायुपिस्तौलमिश्रितदलम्

३. भारतीयमहिलाकबड्डीदलम् — महिलाकबड्डी

४. भारतीयपुरुषकबड्डीदलम् — पुरुषकबड्डी

रजतपदकविजेतारः

१. इलावेनिल् वलारिवन्, सोनम् मस्करः तथा विदर्शा विनोदः — महिलानां दशमीटर् वायुराइफल् दलम्

२. इलावेनिल् वलारिवन् — महिलानां दशमीटर् वायुराइफल्

३. रुद्रांक्षः पाटिलः, पार्थः माने तथा हिमांशुः धिल्लोनः — पुरुषाणां दशमीटर् वायुराइफल् दलम्

४. हिमांशुः धिल्लोनः — पुरुषाणां दशमीटर् वायुराइफल्

५. मीराबाई चानू — भारोत्तोलनम्, महिलानां ४९ किलोग्रामवर्गः

६. रोशिबिना देवी — वुशु, महिलानां ६० किलोग्रामवर्गः

७. विशालः टीके, विथ्या रामराजः, मनुः साजी तथा एम. आर. पूवम्मा — धावनक्रीडा, मिश्रितं ४×४०० मीटर् रिले

८. ऐश्वर्यः प्रतापसिंहः तोमरः, नीरजः कुमारः तथा रुद्रांक्षः बालासाहेबः पाटिलः — निशानेबाजी, पुरुषाणां ५० मीटर् राइफल् त्रिस्थितिदलम्

९. गुलवीरसिंहः — धावनक्रीडा, पुरुषाणां १०,००० मीटर् धावनम्

१०. सावनः बरवालः — धावनक्रीडा, पुरुषाणां मैराथनम्

११. विदर्शा विनोदः, आशी चौकसे तथा तिलोत्तमा सेनः — निशानेबाजी, महिलानां ५० मीटर् राइफल् त्रिस्थितिदलम्

१२. तजिन्दरपालसिंहः तूरः — धावनक्रीडा, पुरुषाणां गोलकक्षेपणम्

१३. अभयसिंहः — स्क्वैश्, पुरुषैकलम्

१४. अनाहतसिंहः — स्क्वैश्, महिलैकलम्

१५. सर्वेशः कुशारे — धावनक्रीडा, पुरुषाणाम् उच्चकूर्दनम्

१६. एंसी सोजनः — धावनक्रीडा, महिलानां दीर्घकूर्दनम्

१७. ईशासिंहः — निशानेबाजी, महिलानां २५ मीटर् पिस्तौल्

कांस्यपदकविजेतारः

१. रुद्रांक्षः पाटिलः — पुरुषाणां दशमीटर् वायुराइफल्

२. सुचिका तारियालः — महिलानां पारम्परिकमिश्रितमार्शलकला, ६० किलोग्रामवर्गः

३. परिनाज़ धालीवालः, राइज़ा ढिल्लोनः तथा माहेश्वरी चौहानः — महिलानां स्कीट् दलम्

४. अनन्तजीतसिंहः नरूका, भवतेगसिंहः गिलः तथा मीराजः अहमदखानः — पुरुषाणां स्कीट् दलम्

५. जयः मीना — पुरुषाणाम् एकलसॉफ्टटेनिस्

६. भारतीयपुरुषबैडमिण्टनदलम् — पुरुषदलम्

७. सतनामसिंहः तथा सलमानखानः — पुरुषाणां द्वियुगलनौकाचालनम्

८. अनन्तजीतसिंहः नरूका तथा परिनाज़ धालीवालः — स्कीट् मिश्रितदलम्

९. सीमाकुमारी — महिलानां १०,००० मीटर् धावनम्

१०. दिया चितले तथा मानुषशाहः — मिश्रितयुगलटेबलटेनिस्

११. मनप्रीतकौरः — महिलानां गोलकक्षेपणम्

१२. बारानिका एलंगोवनः — महिलानां ध्रुवकाष्ठकूर्दनम्

१३. जोशना चिनप्पा तथा वेलावनः सेन्थिलकुमारः — मिश्रितयुगलस्क्वैश्

१४. प्राची चौधरी — महिलानां ४०० मीटर् धावनम्

१५. हरिता भद्रा — महिलानां २०० मीटर् धावनम्

१६. तेजस्विनशंकरः — दशस्पर्धा

१७. पारुलचौधरी — महिलानां ३००० मीटर् बाधाधावनम्

१८. पिंकी बलहारा — महिलानां ७८ किलोग्राम् कुराश च ।

---------------

Hindusthan Samachar / Dheeraj Maithani