अन्ताराष्ट्रियव्यापारप्रदर्शिन्यां दृश्यते उत्तरप्रदेशस्य सामर्थ्यम् - योगी आदित्यनाथः
— रोजगाराभियानम् : ५०० क्रीडकाणां कृते सर्वकारीयसेवायै प्रत्यक्षनियुक्ति: अग्रिमसप्ताहे आरप्स्यते — कृत्रिमबुद्धिः कार्यं सरलं कर्तुं शक्नोति, उत्तरं दातुं शक्नोति, किन्तु प्रश्नं कर्तुं न शिक्षयितुं शक्नोति : मुख्यमन्त्री गोरखपुरम्, २८ सेप्टेम्ब
बाल मेला सम्मान समारोह में विजेता विद्यार्थियों को सम्मानित करते मुख्यमंत्री योगी आदित्यनाथ।


बाल मेला सम्मान समारोह में विजेता विद्यार्थियों को सम्मानित करते मुख्यमंत्री योगी आदित्यनाथ।


— रोजगाराभियानम् : ५०० क्रीडकाणां कृते सर्वकारीयसेवायै प्रत्यक्षनियुक्ति: अग्रिमसप्ताहे आरप्स्यते

— कृत्रिमबुद्धिः कार्यं सरलं कर्तुं शक्नोति, उत्तरं दातुं शक्नोति, किन्तु प्रश्नं कर्तुं न शिक्षयितुं शक्नोति : मुख्यमन्त्री

गोरखपुरम्, २८ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् २५ तः २९ सेप्टेम्बरपर्यन्तं ग्रेटरनोएडानगरे आयोजितायाम् अन्ताराष्ट्रियव्यापार-प्रदर्शिन्याम् उत्तरप्रदेशस्य सामर्थ्यं दृश्यते। अत्र उत्तरप्रदेशे निर्मिताः विविधाः उत्पादाः प्रदर्शिताः सन्ति, येषु गोरखपुरस्य टेराकोटा-उत्पादाः अपि सन्ति। रविवासरे अत्र १.५ लक्षाधिकाः जनाः आगतवन्तः, सोमवासरे अपि विशालजनसमूहः समागतः। अस्यां व्यापारप्रदर्शिन्यां ९० देशेभ्यः क्रेतारः आगतवन्तः, ये उत्तरप्रदेशस्य सामर्थ्यं प्रदर्शयन्ति। प्रदर्शिन्यां शिल्पकाराणाम् उत्पादानां विक्रये तेषाम् आये च उल्लेखनीया वृद्धिः अभवत्।

मुख्यमन्त्री योगी सोमवासरे गोरखपुरे एकेन सञ्चारसमूहेन आयोजिते बालमेलासम्मानसमारोहे सम्बोधनं कुर्वन् आसीत्। दिग्विजयनाथस्नातकोत्तर-महाविद्यालये आयोजिते कार्यक्रमे मुख्यमन्त्री अवदत् यत् २०१७ तमवर्षात् पूर्वमपि उत्तरप्रदेशस्य सामर्थ्यम् आसीत्, किन्तु नेतृत्वस्य इच्छाशक्तिः नासीत्। तस्य परिणामस्वरूपं उत्तरप्रदेशः रोगग्रस्तः कुख्यातश्च प्रदेशः इव अवशिष्टः आसीत्। सः देशस्य सर्वाधिकपश्चाद्वर्तिषु राज्येषु परिगण्यते स्म। किन्तु विगतेषु सार्धनववर्षेषु विषमासु समासु च परिस्थितिषु नेतृत्वस्य संघर्षस्य अनथकप्रयासस्य च परिणामरूपेण उत्तरप्रदेशः अद्य रोगग्रस्तप्रदेशस्य प्रतिमूर्तितः मुक्त्वा देशस्य अर्थव्यवस्थायाः विकासयन्त्रं जातम् अस्ति।

आह्वानानां सम्मुखीभूय सर्वेषु क्षेत्रेषु सुधाराः कृताः

मुख्यमन्त्री अवदत् यत् सार्धनववर्षेभ्यः पूर्वं उत्तरप्रदेशे बह्व्यः आव्हानाः आसन्। बहिः प्रदेशेभ्यः आगताः जनाः उत्तरप्रदेशस्य नाम श्रुत्वा विस्मयं प्राप्नुवन्ति स्म। परिचयस्य संकटम् एतादृशम् आसीत् यत् युवानां कृते राज्ये, देशे विदेशे वा रोजगारस्य अवसराः न आसन्। कर्फ्यू-दङ्गा इति प्रदेशस्य नियतिः इव अभवन्। आरक्षिविभागे द्विलक्षं पदानि रिक्तानि आसन्, तर्हि विधिव्यवस्था कथं सम्यक् भवेत्? सर्वकारे आगत्य वयं सर्वेषु क्षेत्रेषु सुधारान् कृतवन्तः। यूनां हिताय सर्वकारेण न केवलं नियुक्तिप्रक्रिया पारदर्शिनी कृता, अपि तु प्रशिक्षणं तेन सम्बद्धं आधारभूतसंरचनां च अपि विकसितम्। सार्धनववर्षेषु प्रदेशसर्वकारेण शुचितया पारदर्शितया च ९.५ लक्षं युवभ्यः सर्वकारीयसेवा प्रदत्ता। एतेषु केवलं उत्तरप्रदेश-आरक्षकदले २.३० लक्षं रोजगाराः प्रदत्ताः।

कर्फ्यू-दङ्गा इत्यादिभ्यः मुक्तः सन् द्रुतगत्या वर्धिता अर्थव्यवस्था

मुख्यमन्त्री अवदत् यत् विगतेषु सार्धनववर्षेषु उत्तरप्रदेशस्य अर्थव्यवस्था त्रिगुणिता अभवत्। प्रतिव्यक्त्यायः अपि त्रिगुणितः वर्धितः। कदाचित् रोगग्रस्तप्रदेशस्य उपाधिं प्राप्तः प्रदेशः अधुना देशस्य तिसृषु प्रमुखासु अर्थव्यवस्थासु अन्तर्भवति। कर्फ्यू-दङ्गेभ्यः मुक्तः सन् द्रुतप्रगतेः कारणेन उत्तरप्रदेशः देशस्य अर्थव्यवस्थायाः प्रगतेश्च विकासयन्त्रम् इति कथ्यते। उत्तरप्रदेशः स एव अस्ति, किन्तु प्रयासात् परिणामपर्यन्तं यात्रायां परिवर्तनं सर्वेषु क्षेत्रेषु दृश्यते। २०१७ तमवर्षात् पूर्वं राज्ये केवलं १३० नवोद्यमाः आसन्, तेषां संख्या अधुना २४ सहस्राधिकाः जाता अस्ति।

कवितां श्रावयित्वा मुख्यमन्त्री अवदत्—प्रयासेनैव लक्ष्यं प्राप्स्यते

समारोहे विद्यार्थिभ्यः शिक्षकस्य अभिभावकस्य च इव मार्गदर्शनं कुर्वन् मुख्यमन्त्री योगी अवदत् यत् कस्मिंश्चित् स्पर्धायां पदकविजयात् पूर्वं सर्वाधिकमहत्त्वपूर्णं तु प्रतियोगितायां सहभागित्वम् अस्ति। सः महान् कविः सोहनलालद्विवेदीरचितां ‘कोशिश करने वालों की कभी हार नहीं होती’ इति कवितां श्रावयित्वा अवदत् यत् सर्वाधिकं महत्त्वपूर्णं प्रयासः करणीयः, यतः प्रयासेनैव लक्ष्यं प्राप्यते। मुख्यमन्त्री बालानां प्रेरणायै पूर्वराष्ट्रपतेः डॉ. ए.पी.जे. अब्दुलकलामस्य उदाहरणमपि अयच्छत्। सः अवदत् यत् डॉ. कलामः युद्धविमानचालकः भवितुम् इच्छति स्म, किन्तु असफलतायामपि सः धैर्यं न त्यक्तवान्। परिवारे सीमितसाधनेषु सति अपि सः भारतस्य क्षेपणास्त्रपुरुषः अभवत्। राष्ट्रपतिपदं प्राप्तेः पूर्वमेव तस्मै देशस्य सर्वोच्चं सम्मानं भारतरत्नम् प्रदत्तम् आसीत्। मुख्यमन्त्रिणा विद्यार्थिभ्यः उपदिष्टं यत् ते कदापि स्वधैर्यं दुर्बलं न कुर्वन्तु। यः किमपि सङ्कल्पयति, सः तत् कृत्वा अपि दर्शयति। अतः जीवने कदापि धैर्यं न त्याज्यम्।

५०० क्रीडकाणां कृते प्रत्यक्षनियुक्ति: अग्रिमसप्ताहात्

मुख्यमन्त्री विद्यार्थिनः क्रीडाक्षेत्रेऽपि प्रगतिं कर्तुं प्रेरयन् अवदत् यत् सर्वकारः शिक्षायाः, प्रौद्योगिक्याः, नवोद्यमानां च सह क्रीडानामपि प्रोत्साहनं करोति। ओलम्पिक्, एशियाड्, राष्ट्रमण्डलक्रीडासु च पदकविजेतृभ्यः पर्याप्तं धनपुरस्कारं दत्त्वा तेषां प्रत्यक्षं सर्वकारीयसेवायां नियुक्तिरपि क्रियते। अद्यावधि ५५० क्रीडकानां सर्वकारीयसेवासु नियुक्तिः कृता अस्ति। अग्रिमसप्ताहात् ५०० अन्येषां क्रीडकाणां कृते सर्वकारीयसेवायै प्रत्यक्षनियुक्ति: आरप्स्यते।

प्रश्नं कर्तुं न शिक्षयितुं शक्नोति कृत्रिमबुद्धिः

मुख्यमन्त्री अवदत् यत् अद्य सर्वत्र कृत्रिमबुद्धेः विषये बहु चर्चा भवति। कृत्रिमबुद्धिः कार्यं सरलं कर्तुं शक्नोति, उत्तरं दातुं शक्नोति, किन्तु प्रश्नं कर्तुं न शिक्षयितुं शक्नोति। प्रौद्योगिक्याः उपयोगः आवश्यकः, किन्तु तस्य सीमा तत्रैव भवेत् यत्र तस्य प्रयोगेण लोककल्याणं राष्ट्रकल्याणं च भवेत्। सः विद्यार्थिभ्यः जिज्ञासवः भवितुं लक्ष्यप्राप्तये दृढं मनोबलं धारयितुं च शिक्षाम् अददात्। मुख्यमन्त्री विद्यार्थिभ्यः मनोयोगेन अध्ययनं कर्तुं परामर्शं दत्त्वा अवदत् यत् क्रीडनं भ्रमणं चापि आवश्यकम् अस्ति। यदा अवसरः प्राप्यते तदा कस्मिंश्चित् स्थले भ्रमणं कृत्वा स्वप्रकृतिं संस्कृतिं धरोहरं च ज्ञातुं बोधयितुं च प्रयत्नः करणीयः।

कार्यक्रमे मुख्यमन्त्रिणा सर्वेषाम् उपस्थितजनानां पर्यावरणसंरक्षणस्य, स्वच्छतायाः, यातायातनियमानां पालनस्य, मादकद्रव्येभ्यः दूरं रहने च शपथः कारिता तथा विभिन्नानां प्रतियोगितानां विजेतृभ्यः विद्यार्थिभ्यः पुरस्काराः प्रदत्ताः। अस्मिन् अवसरे सांसदः रविकिशनशुक्लः, महापौरः डॉ. मंगलेशश्रीवास्तवः, विधायकः विपिनसिंहः, मदनमोहनमालवीय-प्रौद्योगिकीविश्वविद्यालयस्य कुलपतिः प्रो. अनुपमाशर्माकौशिकः, दिग्विजयनाथ-स्नातकोत्तरमहाविद्यालयस्य प्राचार्यः डॉ. ओ.पी.सिंहः इत्यादयः प्रमुखतया उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan