महिलानां आर्थिकसशक्तीकरणं कुर्वन् योगीसर्वकारः - केशवप्रसादमौर्यः
नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शने सोमवासरे स्वयंसेवीसहायतासमूहानां महिलानां उत्पादान् बृहद्विपण्येन संयोजयितुं महत्त्वपूर्णं पदं स्वीकृतम्। उत्तरप्रदेशराज्यग्रामीणजीविकोपार्जनमिशनस्य तत्त्वावधाने आयोजिते क
उत्तर प्रदेश इंटरनेशनल ट्रेड शो में को स्वयं सहायता समूहों की महिलाओं को  उप मुख्यमंत्री केशव प्रसाद मौर्य ने सम्मानित किया और कई एमओयू किया


नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शने सोमवासरे स्वयंसेवीसहायतासमूहानां महिलानां उत्पादान् बृहद्विपण्येन संयोजयितुं महत्त्वपूर्णं पदं स्वीकृतम्। उत्तरप्रदेशराज्यग्रामीणजीविकोपार्जनमिशनस्य तत्त्वावधाने आयोजिते क्रेतृ-विक्रेतृसभायां महिला-समूहानां प्रसिद्धनिर्माणीभिः सह प्रायः ३० सन्धिपत्राणि हस्ताक्षरितानि।

उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः केशवप्रसादमौर्यस्य उपस्थितौ सम्पन्नेषु एतेषु सन्धिषु महिलानां व्यवसायान् विपणिना बृहद्भिः क्रेतृभिश्च संयोजयितुं प्रयत्नः कृतः। अस्मिन् अवसरे मौर्यः अधिकारिभ्यः निर्दिष्टवान् यत् व्यापारप्रदर्शने सम्पन्नानां सन्धिनां निरन्तरं निरीक्षणं क्रियताम् तथा सर्वाणि सन्धिपत्राणि कार्यरूपेण परिणतव्यानि।

केशवप्रसादमौर्यः अवदत् यत् अग्रिमशैक्षणिकसत्रात् प्राथमिकविद्यालयेषु पठतां प्रायः सार्धकोटिबालकाणां गणवेशं निर्मातुं व्यवस्थायां स्वयंसेवीसहायतासमूहानां महिलाः संयोजयिष्यन्ते। सः अवदत् यत् एतावता विशालसंख्यायां बालकानां गणवेशनिर्माणस्य कार्यं प्राप्तुं महिला-समूहानां कृते रोजगारस्य व्यवसायस्य च नूतनः अवसरः सृज्यते। सर्वकारस्य लक्ष्यं महिलाः ‘लखपतीदीदी’ इत्यस्मात् अग्रे ‘करोडपतीदीदी’ इति रूपेण समर्थाः कर्तुम् अस्ति।

सः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः निर्देशनानुसारं ग्रामीणक्षेत्रस्य महिलाः आत्मनिर्भराः कर्तुं प्रयासाः प्रचलन्ति। योगीसर्वकारस्य शासनकाले महिलाः सुरक्षिताः भवितुं सह आर्थिकदृष्ट्यापि सुदृढाः भवन्ति। महिला-समूहानां उत्पादेभ्यः विपण्यव्यवस्थां प्रदातुं एतादृशानि मञ्चानि महत्त्वपूर्णानि सन्ति, यत्र ताः प्रत्यक्षतया निर्माणीभिः सह व्यावसायिकसम्बन्धान् स्थापयितुं शक्नुवन्ति।

क्रेतृ-विक्रेतृसत्रे प्रदेशस्य विभिन्नजनपदेभ्यः आगतवत्यः स्वयंसेवीसहायतासमूहानां महिलाः निर्माणीनां प्रतिनिधिभ्यः स्वकीयान् उत्पादान् प्रदर्शितवत्यः। अस्य उद्देश्यं उत्पादनिर्मातृणां महिलानां बृहद्क्रेतॄणां च मध्ये प्रत्यक्षसम्पर्कस्य स्थापनम् आसीत्। कार्यक्रमे लघुचित्रमाध्यमेन प्रदेशस्य महिलानां सफलताकथाः अपि प्रदर्शिताः। प्रेरणाभोजनालयस्य सरसहाटस्य च माध्यमेन अग्रे प्रवृत्तानां महिलानां अनुभवाः अपि प्रस्तुताः।

उत्तरप्रदेशराज्यग्रामीणजीविकोपार्जनमिशनस्य निदेशकः अरुणकुमारः अवदत् यत् लक्षशः महिलाः जीविकोपार्जनमिशनेन सह सम्बध्य आर्थिकक्रियाकलापेषु अग्रे वर्धन्ते। व्यापारप्रदर्शनम् तासां उत्पादान् अन्ताराष्ट्रियस्तरीयेन मञ्चेन सम्भावितक्रेतृभिश्च संयोजयितुम् अवसरं प्रददाति।

सिद्धार्थनगरस्य आजाद-स्वयंसेवी-सहायतासमूहस्य सरोजादेवी अवदत् यत् सा पञ्चलक्षरूप्यकाणां ऋणं गृहीत्वा व्यवसायम् आरब्धवती। सर्वकारस्य सहयोगेन ऋणं परिशोध्य अधुना तस्याः वार्षिकव्यापारः षट् लक्षरूप्यकाणि यावत् प्राप्तः अस्ति। अमरोहाजनपदस्य प्रियंशी-स्वयंसेवी-सहायतासमूहेन सह सम्बद्धा कौशल्या त्रिलक्षरूप्यकाणां ऋणेन मसाला-व्यवसायम् आरब्धवती। तस्याः वार्षिकव्यापारोऽपि षट् लक्षरूप्यकेभ्यः अधिकः अभवत्। नवीप्रेरणा-स्वयंसेवी-सहायतासमूहस्य शफीका अवदत् यत् तस्याः व्यवसायः दशमलक्षरूप्यकाणां सीमाम् अतिक्रान्तवान् अस्ति।

ग्रामीणविकासविभागस्य प्रमुखसचिवः सौरभबाबू अवदत् यत् महिला-समूहानां उत्पादानां विक्रयणाय क्रेतृनिर्माणीभिः सह सन्धिपत्रस्य सुविधा प्रदातुं सर्वकारस्य सार्थकः प्रयासः अस्ति। अनेन महिलाभ्यः उत्पादनेन सह विपण्यव्यवस्था अपि प्राप्स्यते।

कार्यक्रमे पृष्ठवर्गकल्याण-दिव्याङ्गजन-सशक्तीकरणविभागस्य राज्यमन्त्री स्वतन्त्रप्रभारः नरेन्द्रकश्यपः, एमएसएमई राज्यमन्त्री हंसराजविश्वकर्मा, ग्रामीण-विकासविभागस्य प्रमुखसचिवः सौरभबाबू, उत्तरप्रदेशराज्य-ग्रामीणजीविकोपार्जन-अभियानस्य निदेशकः अरुणकुमारः, संयुक्ताभियाननिदेशकौ प्रवीणानन्दः चन्द्रशेखरश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan