यूपीआईटीएस् इत्यनेन रचितः इतिहासः, ५.४८ लक्षाधिकैः आगन्तुकैः दृष्टाः प्रदर्शिन्यः व्यापारिकक्रियाकलापाश्च
नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य ‘स्थानीयात् वैश्विकम्’ इति दृष्टिकोणा-नुरूपम् आयोजितेन चतुर्थेन उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शनेन व्यापारिक-क्रियाकलापैः सह जनसहभागितायामपि नूतनः कीर्तिमान् स्थापितः। ग्रेटर
ट्रेड शो में उमड़ी भीड़ की फोटो


नोएडा, २८ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य ‘स्थानीयात् वैश्विकम्’ इति दृष्टिकोणा-नुरूपम् आयोजितेन चतुर्थेन उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शनेन व्यापारिक-क्रियाकलापैः सह जनसहभागितायामपि नूतनः कीर्तिमान् स्थापितः। ग्रेटर-नोएडास्थिते इण्डिया एक्स्पो सेन्टर एण्ड् मार्ट् इत्यत्र आयोजिते पञ्चदिवसीये व्यापारप्रदर्शने २८ सेप्टेम्बरपर्यन्तं कुलं ५,४८,८८१ आगन्तुकाः पञ्जीकृताः। एतेषु १,५६,५२३ घरेलुव्यापारिकक्रेतारः ३,९२,३५८ सामान्यागन्तुकाश्च सन्ति। व्यापारप्रदर्शनं मङ्गलवासरे सम्पन्नं भविष्यति, अतः आगन्तुकानां संख्या अधिका भवितुं सम्भावना अस्ति।

यूपीआईटीएस् इत्यत्र एतावता विशाल-संख्यायां जनानां सहभागिता एतत् दर्शयति यत् इदं आयोजनम् अधुना केवलं व्यापारिभ्यः उद्योगजगतश्च सीमितं नास्ति। प्रदेशस्य उत्पादानां, हस्तशिल्पानां, हस्त-तन्त्रोद्योगस्य, ओडीओपी-उत्पादानां, खाद्य-प्रसंस्करणस्य, कृषि-उत्पादानां आधुनिक-निर्माणस्य च दृश्यं द्रष्टुं बहवः सामान्यजनाः अपि व्यापारप्रदर्शनं प्राप्नुवन्ति। अपरतः घरेलु-अन्ताराष्ट्रिय-क्रेतॄणां उपस्थित्या प्रदर्शिनी वास्तविक-व्यापारिकक्रियाकलापानां मञ्चरूपेण परिणता अस्ति।

यूपीआईटीएस्-चतुर्थस्य प्रमुखं वैशिष्ट्यम् एतत् आसीत् यत् अत्र व्यापारः जनसहभागिता च एकत्र दृश्यते स्म। एकस्मिन् पक्षे व्यापारिकक्रेतारः प्रदेशस्य उत्पादानां गुणवत्ता, मूल्यं, उत्पादनक्षमता निर्यातसम्भावनाश्च ज्ञातुं विभिन्नेषु प्रदर्शनीस्थलेषु आगतवन्तः, अपरस्मिन् पक्षे सामान्यागन्तुकाः उत्तरप्रदेशस्य विभिन्नजनपदानां स्थानीय-उत्पादानां शिल्पानां च विषये सूचनां प्राप्तवन्तः। १,५६,५२३ गृहव्यापारिकक्रेतॄणां उपस्थित्या प्रदेशस्य उद्यमिभ्यः देशस्य विभिन्नभागेभ्यः आगतैः व्यापारिभिः सम्भावितव्यापारिक-सहभागिभिश्च प्रत्यक्षं सम्पर्कं कर्तुम् अवसरः प्राप्तः। अनेन स्थानीय-उत्पादानां कृते नूतनविपणीनां अन्वेषणस्य व्यापारिकजालस्य विस्तारस्य च सम्भावनाः सुदृढाः अभवन्।

मुख्यमन्त्री योगी आदित्यनाथस्य ‘स्थानीयात् वैश्विकम्’ इति दृष्टिकोणस्य अन्तर्गतं उत्तरप्रदेशस्य स्थानीयउत्पादान् राष्ट्रिय-अन्ताराष्ट्रियविपण्यैः संयोजयितुं विशेषं बलं दीयते। यूपीआईटीएस् अस्मिन् दिशि महत्त्वपूर्णमञ्चरूपेण अग्रे आगतम् अस्ति। अत्र प्रदेशस्य विभिन्नजनपदानां उत्पादाः एकस्यैव छदस्य अधः प्रदर्शिताः सन्ति। एकजनपद-एकोत्पादः इत्यस्य अन्तर्गतं निर्मीयमाणैः उत्पादैः सह हस्ततन्त्रोद्योगः, हस्तशिल्पम्, कृष्याधारिताः उत्पादाः, खाद्यप्रसंस्करणम्, चर्म, कालीनानि, पीतलम्, काचः, काष्ठ-निर्मिताः उत्पादाः अन्ये च पारम्परिकाः आधुनिकाश्च उत्पादाः विस्तृतं विपणि प्राप्नुयुः इति दिशि व्यापारप्रदर्शनं महत्त्वपूर्णां भूमिकां निर्वहति। सामान्य-आगन्तुकानां विशालोपस्थित्या एतेषां उत्पादानां प्रत्यक्षं उपभोक्तृभ्यः यावत् प्रापयितुम् अवसरः अपि प्राप्तः। अनेन उत्पादानां परिचयं वर्धयितुं, ब्राण्ड्-प्रतिष्ठां सुदृढां कर्तुं स्थानीयोद्यमिनः नूतनैः ग्राहकवर्गैः संयोजयितुं च साहाय्यं भवति।

अद्यावधि व्यापारप्रदर्शने आगतैः ३,९२,३५८ सामान्यागन्तुकैः यूपीआईटीएस व्यापक-जनसहभागितायुक्तम् आयोजनं कृतम् अस्ति। विभिन्नेषु सभागृहेषु स्थापितेषु प्रदर्शनीस्थलेषु जनानां आवागमनं निरन्तरं वर्तते। आगन्तुकाः प्रदेशस्य विभिन्नभागेभ्यः आगतान् उत्पादान् समीपतः पश्यन्ति तथा तेषां निर्माण-प्रक्रियायाः, विशेषतानां उपयोगितायाश्च विषये सूचनां प्राप्नुवन्ति। व्यापारप्रदर्शने व्यापारिकक्रियाकलापैः सह उत्तरप्रदेशस्य समृद्धा कला-संस्कृतिः, भोजनं पारम्परिकोत्पादाश्च अपि प्रदर्शिताः सन्ति। अनेन प्रदेशस्य विविधतां एकस्मिन्नेव मञ्चे द्रष्टुम् अवसरः प्राप्यते।

विभिन्नेषु प्रदर्शनीसभागृहेषु क्रेतॄणाम् आगन्तुकानां च निरन्तरागमनेन व्यापारिकक्रियाकलापानां गतिः वर्धिता अस्ति। व्यापारिकक्रेतारः उत्पादानां विषये सूचनां प्राप्नुवन्तः सम्भावितैः आपूर्ति-कर्तृभिः निर्मातृभिश्च सह वार्तालापं कुर्वन्ति। व्यापारप्रदर्शने घरेलुक्रेतृभिः सह विदेशिक्रेतॄणामपि सहभागितया प्रदेशस्य उद्यमिभ्यः निर्यातविपण्ये नूतनाः अवसराः उद्घाटिताः सन्ति। अनेन लघुमध्यमो-द्यमिभ्यः स्वकीयान् उत्पादान् विस्तृत-विपण्यं प्रति प्रेषयितुं तथा सम्भावित-व्यापारिकसहभागिभिः सह प्रत्यक्षं संवादं कर्तुम् अवसरः प्राप्तः।

Hindusthan Samachar / Divya Ranjan