‘मन्दिराणि हिन्दूनां श्रद्धायाः केन्द्राणि, न तु सर्वकारस्य राजस्व-उपार्जनस्य स्रोतांसि’ - विश्वहिन्दूपरिषद्
– विहिप-संस्थायाः केन्द्रीय-संयुक्त-महासचिवेन कोटेश्वर-शर्मणा सह विशेष-वार्ता डा. मयङ्कचतुर्वेदी भोपालम्, 28 सितम्बरमासः (हि.स.)। विश्वहिन्दूपरिषदा (विहिप) हिन्दूमन्दिराणां प्रबन्धने सर्वकारस्य नियन्त्रणस्य विरोधः कृतः, मन्दिरेषु समागच्छतः उपहार
विहिप के केंद्रीय संयुक्त महासचिव कोटेश्वर शर्मा से डॉ. मयंक चतुर्वेदी से विशेष बातचीत


– विहिप-संस्थायाः केन्द्रीय-संयुक्त-महासचिवेन कोटेश्वर-शर्मणा सह विशेष-वार्ता

डा. मयङ्कचतुर्वेदी

भोपालम्, 28 सितम्बरमासः (हि.स.)। विश्वहिन्दूपरिषदा (विहिप) हिन्दूमन्दिराणां प्रबन्धने सर्वकारस्य नियन्त्रणस्य विरोधः कृतः, मन्दिरेषु समागच्छतः उपहारस्य अन्य-आयस्य च सर्वकारीय-राजस्वरूपेण दर्शनम् अनुचितं प्रतिपादितम्। विहिप-पक्षेण उक्तं यत् मन्दिराणां प्रत्येकं कपर्दिका सनातनधर्मस्य समाजस्य च समुत्थानाय गुरुकुलेषु, वेदपाठशालासु, गोशालासु, चिकित्सालयेषु तथा च निर्धनसमाजस्य सेवादिषु कार्येषु उपयोक्तव्या, एतदर्थं विहिप विधिक-सङ्घर्षमपि योत्स्यते।

विहिप-संस्थायाः केन्द्रीय-संयुक्त-महासचिवः कोटेश्वरशर्मा भोपाल-प्रवासकाले ‘हिन्दुस्थानसमाचार’ इत्यनेन सह विशेष-वार्तायां मन्दिराणां सर्वकारीय-नियन्त्रणात् आरभ्य धर्मान्तरण-विरोधि-विधानं, जनजातीय-क्षेत्रेषु ‘परावर्तनम्’ (गृहप्रत्यागमनं), जातीय-भेदभावं, पूजक-प्रशिक्षणं (अर्चक-प्रशिक्षणम्), बाल-संस्कार-केन्द्राणि, गोत्र-वंशावली-संरक्षणं तथा च तीर्थाटन-पर्यटनयोः भेदः इत्येतान् विषयान् अधिकृत्य विस्तरेण विहिप-पक्षम् उपास्थापयत्।

विहिप-संस्थायाः केन्द्रीय-संयुक्त-महासचिवेन सङ्घटनस्य प्राथमिकतासु चर्चां कुर्वता उक्तं यत् सङ्घटनस्य बलं हिन्दूसमाजस्य सङ्घटने, सामाजिक-समरसतायां, संस्कारेषु धार्मिक-स्थलानां च स्वायत्तता-सम्बद्धेषु विषयेषु वर्तते। तस्य कथनम् अस्ति यत् २७ सितम्बर २०२६ दिनाङ्कात् अशोकसिङ्घल-महोदयस्य जन्मशताब्दी आरब्धा। एनां विहिप सङ्घटन-विस्तारस्य वर्षरूपेण पश्यति, प्रत्येकं प्रखण्डे संवेदनशील-बस्तौ च सत्सङ्ग-मण्डलानां विस्तारस्य लक्ष्यं स्वीकृत्य अग्रे सरति।

प्रश्नः – मन्दिराणां सर्वकारीय-प्रबन्धनम् अधिकृत्य विहिप निरन्तरं प्रश्नान् उत्थापयति। तमिलनाडु-सर्वकारस्य विवरणानुसारेण तत्र हिन्दू-जैन-धार्मिक-संस्थानां सङ्ख्या ४६,३३८ वर्तते। एतावतः बृहतः धार्मिक-संस्थागत-संरचनायाः सन्दर्भे विहिप वस्तुतः कीदृशीं व्यवस्थां कामयते?

उत्तरम् – अस्माकं मूलप्रश्नः अयमेव यत् हिन्दूमन्दिराणि हिन्दूनां श्रद्धायाः केन्द्राणि सन्ति, न तु सर्वकारस्य राजस्व-उपार्जनस्य स्रोतांसि। सर्वकारस्य कार्यं शासन-सञ्चालनम् अस्ति, न तु मन्दिराणां धार्मिक-प्रबन्धनम्। वयं कामयामहे यत् हिन्दूसमाजोऽपि स्वधार्मिक-स्थलानां स्वतन्त्र-सञ्चालनस्य सांविधानिकम् अधिकारं प्राप्नुयात्। विहिप सन्तान्, विधिवेत्तॄन् प्रबुद्धसमाजं च सह नीत्वा अस्मिन् विषये देशव्यापि-जनजागरणं कुर्वती अस्ति, केन्द्रीय-विधानस्य च याचनां करोति। मन्दिराणां सङ्ख्या यावती महती अस्ति, ततोऽपि महान् प्रश्नः तैः सह सम्बद्धानां कोटिशः भक्तानाम् आस्थायाः धार्मिक-अधिकाराणां च वर्तते।

प्रश्नः – मन्दिराणाम् आयस्य उपयोगम् अधिकृत्य अपि प्रायः विवादाः पुरतः आयान्ति। विहिप-संस्थायाः कथनम् अस्ति यत् मन्दिराणाम् आयः धार्मिकेषु सामाजिकेषु च कार्येषु प्रयोक्तव्यः। किं भवन्तः एतदर्थं कञ्चित् स्पष्टं प्रतिमानं प्रस्तौति?

उत्तरम् – अस्माकं स्पष्टं मतम् अस्ति यत् मन्दिराणां प्रत्येकं कपर्दिका सनातनधर्मस्य समाजस्य च समुत्थाने योजनीया। गुरुकुलाः, वेदपाठशालाः, गोशालाः, चिकित्सालयाः निर्धनसमाजस्य सेवा इत्यादीनि कार्याणि मन्दिराणां माध्यमेन कर्तुं शक्यन्ते। यदि मन्दिराणि समाजस्य श्रद्धया सञ्चाल्यन्ते, तर्हि तेषाम् आयस्य उपयोगोऽपि समाजस्य धर्मस्य च आवश्यकतानाम् अनुरूपमेव भवेत्। वयं विषयेऽस्मिन् विधिक-सङ्घर्षमपि कुर्मः समाजे च जागरणमपि कुर्मः।

प्रश्नः – धर्मान्तरणस्य विषये इदं विवरणं वर्तते यत् २०२५ पर्यन्तम् एकादशसु राज्येषु धर्मान्तरण-नियमन-विधानानि आसन्। एवम्भूते सति विहिप समग्रदेशाय पृथक् केन्द्रीय-विधानस्य आवश्यकतां किमर्थम् अनुभवति?

उत्तरम् – अस्माकं मतम् अस्ति यत् पृथक्-पृथक् राज्येषु भिन्न-भिन्न-नियमानां सद्भावात् स्थितिः एकरूपा न भवति। छलेन, कपटेन, भयेन प्रलोभनेन वा क्रियमाणस्य मतान्तरणस्य प्रतिषेधाय समग्रे देशे समानं कठोरं च केन्द्रीय-विधानं भवेत्। कैश्चित् राज्यैः विधानानि रचितानि, किन्तु अस्माकम् अनुभवः वर्तते यत् येषु क्षेत्रेषु विधानानि अपेक्षया दुर्बलानि सन्ति, तत्र एतादृशानां प्रवृत्तीनाम् अवकाशः जायते। अतः वयं केन्द्रसर्वकारात् राष्ट्रियस्तरे विधानस्य याचनां कुर्मः।

प्रश्नः – ‘परावर्तनम्’ अधिकृत्य विहिप-भाषायां ‘मूल-सनातनधर्मे प्रत्यागमनस्य’ वार्ता उच्यते। जनजातीय-क्षेत्रेषु अस्य अभियानस्य वास्तविकं स्वरूपं किम् अस्ति, अस्य विस्तारश्च कियत् जातः?

उत्तरम् – अस्माकं कृते ‘परावर्तनस्य’ अर्थः कस्यापि जनस्योपरि बलाधानं नास्ति। अस्माकं कथनम् अस्ति यत् ये जनाः अतीते परिस्थितिभिः, भयेन, प्रलोभनेन वा स्वमूलपरम्पराभ्यः पृथग्भूताः, तैः स्वमूलैः सह संयोजनाय अवसरः लब्धव्यः। जनजातीय-क्षेत्रेषु विहिप शिक्षया, चिकित्सया, सेवया च कार्यं कुर्वती अस्ति। अस्माकम् अनुसारेण सहस्रशः परिवाराः स्वेच्छया स्वमूल-सनातनपरम्परायां प्रत्यागताः। इदम् अभियानं सेवायाः, जागरणस्य, आत्मगौरवस्य च भावेन सह अग्रे नीयते।

प्रश्नः – विहिप-संस्थायाः स्वकीय-घोषित-कार्यदिशायां सामाजिक-समरसतायै अस्पृश्यता-निवारणाय च प्रमुखं स्थानं दत्तम् अस्ति। धरातलीयस्तरे ‘एकः कूपः, एकं मन्दिरम्, एकः श्मशानः’ इति उद्घोषाः व्यवहारे कथम् अवतार्थन्ते?

उत्तरम् – केवलम् उद्घोषमात्रेण सामाजिक-समरसता नागमिष्यति। सन्तानां कार्यकर्त्याणां च माध्यमेन समाजस्य विविधानां वर्गाणां मध्ये सम्पर्कः वर्ध्यते। सत्सङ्ग-मण्डलेषु समरसता-भोजनानि धर्मचर्चाश्च भवन्ति। अस्माकं प्रयासः अस्ति यत् मन्दिरेषु, जलस्रोतःसु, अन्त्येष्टि-सदृशेषु च सामाजिक-जीवनस्य मूलकेन्द्रेषु भेदभावः समाप्तः भवेत्। सनातनसमाजे जन्माधारेण उच्च-नीच-भावः न भवेत्।

प्रश्नः – अर्चक-प्रशिक्षणमपि विहिप सामाजिक-समरसताया सह योजयति। किं तस्य अयम् अर्थः यत् पारम्परिक-पूजक-व्यवस्थायां व्यापक-परिवर्तनस्य दिशि सङ्घटनं कार्यं करोति?

उत्तरम् : अस्माकं मतम् अस्ति यत् पुरोहित-भवने आधारः केवलं जन्म एव न, अपि तु योग्यता दीक्षा चापि भवेत्। अतः वयं प्रशिक्षण-केन्द्राणां माध्यमेन अनुसूचित-जातेः, जनजातेः, पश्चाद्वर्गाणां च यूनां कृते वैदिक-पूजापद्धतेः, कर्मकाण्डस्य, संस्काणां च प्रशिक्षणं यच्छन्तः स्मः। अनेन द्वे उद्दिश्ये पूर्येते— एकतः योग्याः पूजकाः सज्जीभवन्ति, अपरतः च समाजे जात्याधारेण निर्मिताः दूरयः न्यूनाः भवन्ति।

प्रश्नः – विहिप-अनुसारेण देशे सहस्रशः सत्सङ्ग-मण्डलानि सक्रियाणि सन्ति। २०२६ तमं वर्षं भवद्भिः सङ्घटन-विस्तार-वर्षत्वेन प्रतिपादितम्। अस्य विस्तारस्य मानदण्डः कः भविष्यति? केवलं सङ्ख्या-वर्धनम् उत कस्यचित् सामाजिक-परिणामस्य प्राप्तिः?

उत्तरम् – सङ्ख्या महत्त्वपूर्णा अस्ति, किन्तु अस्माकं लक्ष्यं केवलं सङ्ख्या-वर्धनं नास्ति। २०२६ तमे वर्षे अस्माकं सङ्कल्पः प्रत्येकं प्रखण्डं संवेदनशील-बस्तिं च यावत् सत्सङ्ग-मण्डलानां प्रापणस्य अस्ति। सम्प्रति देशे ३५,०००-तः अधिकानि सत्सङ्ग-मण्डलानि प्रचलन्ति। वयं तेषां सङ्ख्यां द्विगुणीकर्तुं प्रवृत्ताः स्मः। सत्सङ्गस्य उद्देश्यं सङ्घटनेन सह संस्कारस्य सेवायाश्च योजनम् अस्ति। अतः कस्यचित् मण्डलस्य सफलता केवलं तस्य उपवेशन-सङ्ख्यया न, अपि तु समाजे आगतेन परिवर्तनेनापि द्रष्टव्या।

प्रश्नः – भवताम् अनुसारेण सत्सङ्गात् व्यसनमुक्तिः, परिवारेषु सुधारः, बालकेषु संस्काराः इत्यादयः परिणामाः आगताः। किं विहिप एतान् दावान् कस्यापि व्यवस्थित-अध्ययनस्य विवरणानां वा माध्यमेन अङ्कयति?

उत्तरम् – अधुना अस्माकं बलं समाजस्य मध्ये प्रत्यक्ष-कार्ये वर्तते। यत्र नियताः सत्सङ्गाः प्रचलन्ति, तत्र अस्माभिः व्यसनात् दूरीभवनं, पारिवारिक-सम्बन्धेषु सुधारः, बालकेषु संस्कार-वर्धनम् इत्यादयः परिणामाः दृष्टाः। अस्माकम् अनुभवः अस्ति यत् सत्सङ्गः केवलं धार्मिक-कार्यक्रमे सीमितः नास्ति। तत्र राष्ट्रस्य, परिवारस्य, बालकानां संस्काराणां सामाजिक-समस्यानां चोपरि अपि चर्चा भवति। आगमिष्यति काले एतेषां कार्याणां प्रभावं व्यवस्थितरूपेण अङ्कयितुम् आवश्यकता वर्तते।

प्रश्नः – चलदूरभाषस्य सामाजिक-पटलानां च युगे बालकानां योजनं महद् आह्वानम् अस्ति। विहिप-पक्षेण बाल-संस्कार-केन्द्राणां विस्तारस्य वार्ता उक्ता। अस्य लक्ष्यं कियत् व्यापकम् अस्ति?

उत्तरम् – अस्माकं प्रयासः प्रत्येकं जिल्ला-केन्द्रं प्रमुखां बस्तिं च यावत् बाल-संस्कार-केन्द्राणां प्रापणस्य अस्ति। बालकेभ्यः केवलं धार्मिक-विषयाणां कथनम् अस्य उद्देश्यं नास्ति। योगः, राष्ट्रभक्तानां जीवन-गाथाः, नैतिक-मूल्यानि, परिवारं प्रति दायित्वं सनातन-परम्पराणां वैज्ञानिकः पक्षश्चापि पाठयिष्यते। अस्माकं मतम् अस्ति यत् संस्काराः बाल्यकालादेव आरब्धाः भवेयुः। चलदूरभाषस्य सामाजिक-माध्यमानां च युगे परिवारस्य समाजस्य च भूमिका अधिका महत्त्वपूर्णा सञ्जाता।

प्रश्नः – नगरीकरणस्य कारणेन गोत्रं, कुलदेवता, वंशावली इत्यादयः पारम्परिकाः ज्ञानांशाः नूतन-पीढ्याः दूरे भवन्ति। किं विहिप-पार्श्वे एतत् संरक्षितुं कापि दृढा योजना अस्ति?

उत्तरम् – ‘कुटुम्ब-प्रबोधनस्य’ माध्यमेन वयं परिवारान् स्ववंशवृक्षस्य, गोत्रस्य, कुलपरम्परायाश्च प्रपत्राणि सज्जीकर्तुं प्रेरयामः। शताब्दिभ्यः वंशावलीं लिखतां जागा, राव, भाट सदृशानां पारम्परिक-समुदायानां प्रपत्राणि अपि महत्त्वपूर्णानि सन्ति। एतेषां संरक्षणम् आवश्यकम्, यतोहि परिवारस्य मूलानि केवलं नाम्ना उपनाम्ना च न ज्ञायन्ते। आगमिष्यन्त्याः सन्ततेः कृते स्वपारिवारिक-सांस्कृतिक-परम्परायाः ज्ञानं भवेत्।

प्रश्नः – मन्दिराणि पर्यटन-स्थलरूपेण विकासयितुं तीर्थक्षेत्ररूपेण च दर्शने विहिप मूलभेदं किं मन्यते?

उत्तरम् – मन्दिराणि केवलं पर्यटन-स्थलानि न सन्ति। तानि आराधनायाः, तपसः, आध्यात्मिक-साधनायाश्च केन्द्राणि वर्तन्ते। पर्यटने सौविध्यम् आमन्दश्च प्रमुखौ भवितुम् अर्हतः, यदा तु तीर्थाटने श्रद्धा, संयमः, नियमः, आत्मरूपान्तरणं च प्रमुखाणि सन्ति। अतः वयं कामयामहे यत् पवित्राणां धानां विकासः तेषां धार्मिक-गरिमानुरूपं भवेत्। आधुनिकाः सुविधाः स्युः, किन्तु मन्दिरस्य मूल-आध्यात्मिकी अभिज्ञा प्रभाविता न भवेत्।

प्रश्नः – काशी-विश्वनाथ-धाम, महाकाल-लोकः, विन्ध्याचल-सदृशेषु धार्मिक-मार्गिकासु विहिप सकारात्मकं दृष्टिकोणं धारयति। किं भव्यतायाः आध्यात्मिकतायाश्च मध्ये कश्चित् सन्तुलनम् अपि आवश्यकम्?

उत्तरम् – निश्चितमेव। तीर्थानां विकासः भक्तानां सौविध्य-वर्धकः भवेत्। भव्यता स्वयमेव लक्ष्यं नास्ति। गर्भगृहस्य प्राचीनता, मूल-पूजापद्धतिः, धार्मिक-परम्परा, आध्यात्मिकी शान्तिश्च सुरक्षिता भवेत्। अस्माकं स्पष्टं मतम् अस्ति यत् विकासः एतादृशः स्यात् यः अध्यात्मं प्रवर्धयेत्, न तु तत् तिरोदध्यात्।

प्रश्नः – इदं २०२६ तमं वर्षम् अशोकसिङ्घलस्य जन्मशताब्दीवर्षरूपेण विहिप आचरति। किं विहिप एनाम् अवसरं केवलं स्मरणवर्षत्वेन मन्यते उत सङ्घटनाय किमपि नूतनं लक्ष्यमपि निर्धारितम्?

उत्तरम् – अयम् अस्माकं कृते केवलं स्मरणस्य अवसरः नास्ति। अशोकसिङ्घल-महोदयस्य जीवनं हिन्दूसमाजस्य सङ्घटनेन, सांस्कृतिक-जागरणेन, हिन्दूस्वाभिमानेन च सम्बद्धम् आसीत्। वयं सङ्घटन-विस्तार-वर्षरूपेण अग्रे प्रवृत्ताः स्मः। अस्माकं प्रयासः अस्ति यत् तस्य विचारान् कार्याणि च नूतनपीढीं प्रति प्रापयन्तः प्रत्येकं प्रखण्डं संवेदनशीलां बस्तिं च यावत् सङ्घटनात्मकाः सांस्कृतिकाश्च प्रवृत्तयः प्रविशेयुः।

प्रश्नः – यदि मन्दिराणां स्वायत्तता, सामाजिक-समरसता, सत्सङ्गः, बाल-संस्कारः, पूजक-प्रशिक्षणं तथा सङ्घटन-विस्तारः एकत्र अवलोक्येरन्, तर्हि विहिप-संस्थायाः आगमिनः अभियानस्य मूलकेन्द्रं किं दृश्यते?

उत्तरम् – मूलकेन्द्रं हिन्दूसमाजस्य सङ्घटनं जागरणञ्च अस्ति। मन्दिराणि आस्थायाः केन्द्रं वर्तन्ते, सत्सङ्गः समाज-संयोजनस्य माध्यमम् अस्ति, संस्काराः नूतनपीढ्यै दिशां प्रयच्छन्ति, सामाजिक-समरसता च समाजम् अन्तस्तः सुदृढं करोति। अस्माकं प्रयासः अस्ति यत् सेवा, संस्कारः, सङ्घटनं, सांस्कृतिक-चेतना च परस्परं सम्बद्धाः भवेयुः। यदा समाजस्य प्रत्येकः वर्गः आत्मानम् अस्याः व्यापिकायाः सामाजिक-सांस्कृतिक-धारायाः अङ्गं मंस्यते, तदैव सङ्घटनस्य उद्देश्यं पूर्णं भविष्यति।

--------

Hindusthan Samachar / Sachin Budhauliya