भारतीययुद्धपोताः दक्षिणचीनसागरात् भूमध्यसागरपर्यन्तम् अटलाण्टिक्-महासागरपर्यन्तं च समुद्रस्य निरीक्षणं कुर्वन्ति
— रक्षामन्त्रिणा राजनाथसिंहेन भारतीयनौसेनायाः कमाण्डर इत्यादिनां द्वितीयसम्मेलनं सम्बोधितम् नवदिल्ली, २९ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे नवदिल्ली इत्यत्र नौसेनाभवने भारतीयनौसेनायाः द्विवार्षिक-कमाण्डर-सम्मेलनस्य द्वितीय
भारतीय नौसेना के कमांडरों के साथ राजनाथ सिंह


— रक्षामन्त्रिणा राजनाथसिंहेन भारतीयनौसेनायाः कमाण्डर इत्यादिनां द्वितीयसम्मेलनं सम्बोधितम्

नवदिल्ली, २९ सेप्टेम्बरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः मङ्गलवासरे नवदिल्ली इत्यत्र नौसेनाभवने भारतीयनौसेनायाः द्विवार्षिक-कमाण्डर-सम्मेलनस्य द्वितीयसत्रं सम्बोधयन् अवदत् यत् भारतीययुद्धपोतानां उपस्थितिः दक्षिणचीनसागरात् भूमध्यसागरपर्यन्तम् अटलाण्टिक्-महासागरपर्यन्तं च विस्तृता अस्ति, या समुद्रीक्षेत्रे भारतस्य सैन्यसामर्थ्यं प्रदर्शयति। सः अवदत् यत् सामरिकगहनतां क्षेत्रीयशक्तिप्रदर्शनं च सुनिश्चित्य भारतीयनौसेनायाः भूमिका महत्त्वपूर्णा अस्ति।

रक्षामन्त्री अवदत् यत् भारतम् हिन्दमहासागरक्षेत्रे दृढतया स्थितम् अस्ति तथा सम्पूर्णं विश्वम् अस्मिन् क्षेत्रे भारतस्य सामरिकस्थितेः कार्यनीतिकदायित्वस्य च विकासस्य साक्षी अस्ति। अधुना समुद्रीसम्मर्दस्य, निरीक्षणस्य प्रतिक्रियातन्त्रस्य च क्षमताः नूतनस्तरं नेतव्याः। यदि समुद्राः सुरक्षिताः सन्ति तर्हि भारतं सुरक्षितं भविष्यति, यदि भारतं सुरक्षितं भवति तर्हि विकसितभारतस्य संकल्पः अधिकं सुदृढः भविष्यति।

राजनाथसिंहः अवदत् यत् भारतीयनौसेना ‘विकसितभारत-२०४७’-स्य दृष्टेः सामरिकाधारशिला अस्ति। समुद्रीसीमानां रक्षणात् अतिरिक्तं नौसेना आर्थिकसुरक्षां, क्षेत्रीयस्थैर्यं शक्तिप्रदर्शनं च सुदृढं करोति। सः भारतीयनौसेनायाः आह्वानं कृतवान् यत् सा भविष्यस्य कृते सज्जा, युद्धाय सिद्धा तथा विश्वस्तरे सम्मानिता सेना इति रूपेण स्वं परिवर्तयित्वा निरन्तरं प्रगतिं धारयेत्।

पश्चिम-एशियायां सङ्कटस्य समये भारतीयनौसेनायाः भूमिकां प्रशंसन् राजनाथसिंहः अवदत् यत् ‘ऊर्जासुरक्षाभियानस्य’ अन्तर्गतं होर्मुज्-जलडमरूमध्यात् भारतीयध्वजयुक्तानां वाणिज्यिकपोतानां, विशेषतः एलपीजी-वाहकपोतानां सुरक्षितसञ्चारः सुनिश्चितः करणम् उत्कृष्टोपलब्धिः अस्ति। सः अवदत् यत् भारतं स्वस्य अपक्व तैलस्य प्रायः ८५-९० प्रतिशतं प्राकृतिकवाते: च प्रायः ५० प्रतिशतं समुद्रीमार्गैः आयातयति। अतः समुद्रीमार्गाणां सुरक्षा देशस्य अर्थव्यवस्थया, ऊर्जापूर्त्या, रक्षासज्जतया च प्रत्यक्षतया सम्बद्धा अस्ति।

रक्षामन्त्री रक्षाक्षेत्रे आत्मनिर्भरता-प्राप्तेः दिशि नौसेनायाः प्रयासेषु बलं दत्त्वा अवदत् यत् भारतीयनौसेनायाः युद्धपोत-निर्माणव्यवस्था अधुना वैश्विकमानकान् पूरयति। अधुना एव नौसेनायां समाविष्टेषु युद्धपोतैः ७५ प्रतिशतादधिकं स्वदेशीयसामग्री प्रयुक्ता अस्ति। आगामिकाले अस्माभिः न केवलं स्वकीयाः आवश्यकताः पूरणीयाः, अपितु मित्रदेशेभ्यः युद्धपोतानाम् निर्यातोऽपि करणीयः।

रक्षामन्त्री विद्यमानानां प्रणालीनां महत्त्वं स्वीकृत्य भारतस्य समुद्री-निगराणीव्यवस्थायां महत्त्वपूर्णसुधारस्य आवश्यकतां प्रतिपादितवान्। सः अवदत् यत् समुद्रीययातायातस्य वर्धमाना मात्रा जटिलता च उन्नतविश्लेषणात्मक-क्षमतानां आवश्यकतां जनयति। राजनाथसिंहेन अग्रपङ्क्तेः युद्धपोतानां विमाानानां च उपरि महिलाधिकारिणीनां नियुक्तेः विषये प्रकाशः पातितः। ‘नाविकासागरपरिक्रमा’-सहितेषु नौसैनिकनौवहनाभियानेषु महिलानां सहभागितामपि सः प्रशंसितवान्।

रक्षामन्त्री ‘लोकयान-२६’-कार्यक्रमाय आईएनएस् सुदर्शिन्याः नियुक्तेः प्रशंसां कृतवान्। अनया नियुक्त्या भारतस्य समुद्रीकूटनीतेः अमेरिकादेशे, अटलाण्टिक्-क्षेत्रे, भूमध्यसागरीयक्षेत्रेषु च भारतीयप्रवासीभिः सह सम्पर्कस्य सुदृढीकरणं जातम्, तथा भारतस्य समुद्रीपरम्परायाः प्रदर्शनमपि कृतम्।

राजनाथसिंहेन स्वीयस्य सम्बोधनस्य समापनसमये परिवर्तमानानां चुनौतीनां मध्येऽपि सम्पूर्णे क्षेत्रे उच्चस्तरीयां युद्धसज्जतां धारयितुं स्वकीयप्रतिबद्धताः पूरयितुं च भारतीयनौसेनायाः प्रशंसा कृता। सः अवदत् यत् भारतस्य समुद्रीशक्तेः उद्देश्यं केवलं समुद्रे राष्ट्रध्वजस्य फहरणं नास्ति, अपितु यत्र कुत्रापि तिरङ्गः दृश्यते तत्र सः सुरक्षा-विश्वासस्य प्रतीकः भवेत् इति सुनिश्चितं करणम् अस्ति। सम्मेलनस्य समये राजनाथसिंहेन चीफ ऑफ डिफेन्स स्टाफ तथा चीफ ऑफ आर्मी स्टाफ इत्येताभ्यां सहापि परस्परं वार्ता कृता।

Hindusthan Samachar / Divya Ranjan