गोपेश्वरस्य स्वच्छताव्यवस्थायै ओएनजीसी-संस्थायाः सहयोगः
गोपेश्वरम्, २९ सेप्टेम्बरमासः (हि.स.)। ओएनजीसी-संस्थया निगमीयसामाजिक-दायित्वस्य अन्तर्गतं शिवालिक-एजुकेशनल-सोशल-वेलफेयर-एण्ड-ह्यूमन-रिसोर्स-सोसायटी इत्यस्याः माध्यमेन नगरस्य स्वच्छता-व्यवस्थां सुदृढां कर्तुं नगरपालिकापरिषद् गोपेश्वराय द्वे त्रिसहस्
ओएनजीसी की ओर से सफाई उपकरण सौंपते हुए।


गोपेश्वरम्, २९ सेप्टेम्बरमासः (हि.स.)। ओएनजीसी-संस्थया निगमीयसामाजिक-दायित्वस्य अन्तर्गतं शिवालिक-एजुकेशनल-सोशल-वेलफेयर-एण्ड-ह्यूमन-रिसोर्स-सोसायटी इत्यस्याः माध्यमेन नगरस्य स्वच्छता-व्यवस्थां सुदृढां कर्तुं नगरपालिकापरिषद् गोपेश्वराय द्वे त्रिसहस्रलीटरक्षमतायुक्ते जलप्रपे, पञ्च धूमनयन्त्राणि, पञ्चविंशतिः अपशिष्ट-सङ्ग्रहण-हस्तशकटिकाः अन्यानि च स्वच्छतासाधनानि उपलब्धी-कृतानि।

नगरपालिकया आयोजिते कार्यक्रमे शिवालिक-सोसायटी इत्यस्य प्रतिनिधिभिः स्वच्छतासाधनानि नगरपालिकाध्यक्षाय सन्दीपरावताय समर्पितानि। एतेषां साधनानां माध्यमेन नगरे अपशिष्ट-सङ्ग्रहणं, धूमनं, स्वच्छताव्यवस्था च अधिकं सुदृढा भविष्यति इति अपेक्षा अस्ति। ओएनजीसी-संस्थायाः पूर्वाधिकारी एल. मोहनलखेड़ा अवदत् यत् ओएनजीसी सीएसआर-अन्तर्गतं शिक्षायाः, स्वास्थ्यस्य, महिलासशक्तीकरणस्य, स्वच्छतायाश्च सहितेषु सामाजिकसरोकारसम्बद्धेषु कार्येषु पर्वतीयक्षेत्रेभ्यः सहयोगं प्रददाति।

सः अवदत् यत् विभिन्नानां सीएसआर-प्रस्तावानां माध्यमेन अद्यावधि सार्ध-द्विसहस्राधिकेभ्यः सर्वकारीय-विद्यालयेभ्यः फर्नीचर-सङ्गणकानि अन्याः सामग्रीश्च उपलब्धीकृताः सन्ति।

नगरपालिकाध्यक्षः सन्दीपरावतः ओएन-जीसी-संस्थायाः सहयोगाय आभारं प्रकटितवान्। सः अवदत् यत् स्वच्छता-व्यवस्थायै प्राप्तानि साधनानि नगरपालिकायै उपयोगीनि सिद्धानि भविष्यन्ति तथा नगरस्य स्वच्छताव्यवस्थां सुदृढां कर्तुं साहाय्यं करिष्यन्ति।

कार्यक्रमे ओएनजीसी-संस्थायाः मुख्य-महाप्रबन्धकः एचसीए नीरजकुमारशर्मा, महाप्रबन्धकः पवनकुमारसैनी, सीएसआर-प्रभारी विशालशर्मा च अन्तर्जालमाध्यमेन सम्बद्धाः। अस्मिन् अवसरे सामाजिककार्यकर्ता सुनील-नाथनबिष्टः तथा जीआईसी गौणायाः पीटीए-अध्यक्षः गजेन्द्ररावतः अपि सम्मानितौ।

अस्मिन् अवसरे शिवालिक-सोसायटी-अध्यक्षः उत्तमरावतः, परियोजनाप्रबन्धकः अङ्कुरबिष्टः, सचिवः दयालसिंहरावतः, भाजपाजनपदाध्यक्षः गजपालबत्र्वालः, नन्दनसिंहबिष्टः, वीरेन्द्रसिंह-असवालः, दीपकभट्टः, अभिषेकबडोनी, सुरेन्द्र-सिंहनेगी, नगरपालिकायाः कार्यपालक-अधिकारी अनिलकुमारपन्तः इत्यादयः सभासदाः, अधिकारिणः, कर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan