Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २९ सेप्टेम्बरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता मङ्गलवासरे प्रधानमन्त्री नरेन्द्रमोदिना सह साक्षात्कारं कृत्वा तस्मै विगतेषु प्रायः सार्धैकवर्षेषु दिल्ली इत्यत्र सम्पन्नानां प्रमुखविकास-कार्याणां जनकल्याण-कारीणां च प्रयत्नानां विषये आधारितां पुस्तिकां समर्पितवती।
प्रधानमन्त्रिकार्यालयेन सामाजिक-माध्यममञ्चे ‘एक्स’-इत्यत्र गुप्तायाः मोदिना सह साक्षात्कारस्य चित्राणि सहभाडकृतानि।
तदनन्तरं गुप्तया ‘एक्स’-इत्यत्र प्रकाशिते सन्देशे उक्तं यत् सा प्रधानमन्त्रिणा सह शिष्टाचारसाक्षात्कारं कृत्वा तस्य मार्गदर्शनं प्राप्तवती। सा अवदत् यत् अस्मिन् अवसरे विगतेषु प्रायः सार्धैकवर्षेषु दिल्ली इत्यत्र सम्पन्नानां प्रमुखविकास-कार्याणां जनकल्याणकारीणां च प्रयत्नानां विषये आधारितायाः पुस्तिकायाः एकां प्रतिलिपिं प्रधानमन्त्रिणे समर्पितवती।
मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणा सह प्रत्येकं साक्षात्कारः तस्यै नूतनां प्रेरणां ददाति तथा तस्य स्नेहः मार्गदर्शनं च राष्ट्रसेवायाः जनसेवायाश्च संकल्पं अधिकं दृढं करोति।
सा अवदत् यत् प्रधानमन्त्रिणः मार्गदर्शनं तस्यै ‘विकसितभारतस्य’ अनुरूपं ‘विकसितदिल्ली’-निर्माणाय अधिक-समर्पणेन कार्यं कर्तुं प्रेरणां ददाति।
गुप्तया प्रधानमन्त्रिणे बहुमूल्यसमयं प्रदत्तवते स्नेहपूर्णमार्गदर्शनाय च आभारः व्यक्तः।
Hindusthan Samachar / Divya Ranjan