ग्रामीणपेयजलयोजनानां स्थैर्यार्थं ग्रामपञ्चायतानां भूमिकां वर्धयितुं केन्द्रसर्वकारस्य बलम्
नवदिल्ली, २९ सेप्टेम्बरमासः (हि.स.)। केन्द्रसर्वकारेण ग्रामीणक्षेत्रेषु नलद्वारा जलापूर्तिव्यवस्थायाः दीर्घकालिकस्थैर्यं सुनिश्चितुं ग्रामपञ्चायतानां भूमिकां वर्धयितुं बलं दत्तम्। पेयजलयोजनानां सञ्चालनस्य अनुरक्षणस्य च दायित्वं स्वीकर्तुं तथा जलस्र
नई दिल्ली में मंगलवार को ‘सुजल ग्राम संवाद’ के 11वें संस्करण के दौरान अधिकारियों के साथ संवाद करते ग्राम पंचायत प्रतिनिधि।


नवदिल्ली, २९ सेप्टेम्बरमासः (हि.स.)। केन्द्रसर्वकारेण ग्रामीणक्षेत्रेषु नलद्वारा जलापूर्तिव्यवस्थायाः दीर्घकालिकस्थैर्यं सुनिश्चितुं ग्रामपञ्चायतानां भूमिकां वर्धयितुं बलं दत्तम्। पेयजलयोजनानां सञ्चालनस्य अनुरक्षणस्य च दायित्वं स्वीकर्तुं तथा जलस्रोतसां संरक्षणं, उपयोक्तृशुल्कसङ्ग्रहव्यवस्थां च सुदृढां कर्तुं पञ्चायता: प्रोत्साह्यन्ते।

केन्द्रीयजलशक्तिमन्त्रालयस्य पेयजल-स्वच्छताविभागस्य वतीया मङ्गलवासरे ‘सुजल ग्राम संवाद’ इत्यस्य एकादशं संस्करणम् आयोजितम्। विभागस्य सचिवस्य अशोक के.के. मीनस्य अध्यक्षतायाम् आयोजिते अस्मिन् बहुभाषीयसंवादे राष्ट्रियजलजीवन-अभियानस्य अपरसचिवः अतिरिक्त-अभियाननिदेशकश्च कमलकिशोरसोनः इत्येतै: सह वरिष्ठाधिकारिणः उपस्थिताः आसन्।

अशोक के.के. मीनः अवदत् यत् ग्रामीणपेयजलव्यवस्थायाः दीर्घकालिक-स्थैर्यं सुनिश्चितुं ग्रामपञ्चायतानां महत्त्वपूर्णा भूमिका वर्तते। सः पञ्चायतीः परस्परं अनुभवैः तथा च स्थानीयस्तरे क्रियमाणैः नवाचारैः शिक्षितुं, स्थानीय-जलप्रबन्धनं च सुदृढं कर्तुं आह्वानं कृतवान्।

अशोक के.के. मीनः पेयजलयोजनानां सञ्चालन-अनुरक्षणयोः पञ्चायतानां दायित्वं वर्धयितुं, उपयोक्तृशुल्क-सङ्ग्रहव्यवस्थां सुदृढां कर्तुं तथा योजनानां वित्तीयस्थैर्यं सुनिश्चितुं च बलं दत्तवान्। तेन भूजलपुनर्भरणं वर्षाजलसञ्चयनं च इत्यादीनाम् उपायानां माध्यमेन जलस्रोतांसि सुरक्षितानि स्थापयितुं आवश्यकतायाः विषये अपि उक्तम्।

संवादस्य अवधौ मध्यप्रदेशस्य उज्जयिन्याः सकारिया, पश्चिमबङ्गस्य अलीपुरद्वारस्य दशिनपारा, झारखण्डस्य बोकारोजनपदस्य गोराबाली दक्षिणा तथा लद्दाखस्य नुब्राक्षेत्रस्य पार्टापुरग्रामपञ्चायतीनां प्रति-निधिभिः स्थानीयसमुदायस्य सदस्यैश्च पेयजलयोजनाभिः सम्बद्धाः स्वानुभवाः सहभागकृताः।

सकारियाग्रामपञ्चायतस्य प्रतिनिधिभिः उक्तं यत् पूर्वं ग्रामीणाः पेयजलाय कूपेषु नलकूपेषु च आश्रिताः आसन्, किन्तु अधुना प्रत्येकस्मिन् गृहे नलद्वारा जलं प्राप्यते तथा ग्रामाय ‘हर घर जल’ इति स्थितिः प्राप्ता अस्ति। पञ्चायत्यां पेयजलव्यवस्थायाः सञ्चालनाय प्रतिमासं १५० रुप्यकाणां उपयोक्तृशुल्कं गृह्यते तथा जलस्य गुणवत्तायाः साप्ताहिकं परीक्षणं क्रियते। ग्रामे १६ मार्च २०२६ तमे वर्षे ‘जलार्पणम्’ इति कार्यक्रमः अपि आयोजितः आसीत्।

पश्चिमबङ्गस्य दशिनपारायाः प्रतिनिधिभिः नेपालीभाषया स्वानुभवाः उक्ताः। तैः उक्तं यत् जलजीवन-अभायानात् पूर्वं ग्रामे सुरक्षितपेयजलस्य समस्या आसीत् तथा जनाः सार्वजनिकनलेषु कूपेषु च आश्रिताः आसन्। अधुना गृहेभ्यः सह विद्यालयेषु आङ्गनवाडीकेंद्रेषु च नलद्वारा जलम् उपलब्धम् अस्ति। प्रतिनिधीनां मतेन सुरक्षितपेयजलस्य उपलब्धतया जल-जनितरोगेषु न्यूनता अभवत् तथा महिलानां जलाहरणसम्बद्धा कठिनता अपि न्यूनीभूता अस्ति।

झारखण्डस्य बोकारोजनपदस्य गोराबाली दक्षिणग्रामपञ्चायतस्य प्रतिनिधिभिः उक्तं यत् नलद्वारा जलस्य उपलब्धतया ग्रामीणपरिवारानां कठिनताः न्यूनीभूताः सन्ति। ‘जलसहिया’ इति प्रतिरूपस्य अन्तर्गतं महिलाः समुदायस्य जागरूकतावर्धने, उपयोक्तृशुल्कसङ्ग्रहे, सूचनानां समाधाने तथा जनसह-भागितायाः वर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति। सम्बन्धितविभागस्य अधि-कारिणां अनुसारं जनपदे ‘जलसहिया’ इति प्रतिरूपेण सह प्रायः १५ सामुदायिक-प्रतिरूपाणि सञ्चालितानि सन्ति।

लद्दाखस्य नुब्राक्षेत्रस्य पार्टापुरग्राम-पञ्चायतस्य प्रतिनिधिभिः उक्तं यत् जलजीवन-अभियानात् पूर्वं शीतकाले पेयजलस्य प्राप्तिः अत्यन्तं समस्यापूर्णा आसीत्। ग्रामीणाः दूरेषु जलस्रोतस्सु अथवा हिमस्य द्रवीभूतजले आश्रिताः भवितुम् अर्हन्ति स्म। अधुना गृहेषु सम्पूर्णवर्षं नलद्वारा जलम् उपलब्धम् अस्ति। प्रायः ऋण ३० डिग्री सेल्सियसतापमानेऽपि तकनीकी-उपायानां कारणेन जलापूर्ति-व्यवस्था अनुरक्ष्यते।

Hindusthan Samachar / Divya Ranjan