सेवापर्वणि स्वच्छताभियानेन सह प्लास्टिकमुक्तस्य प्रयत्नस्य आयोजनम्, हीरानगरे पुस्तकदानम्
कठुआ, २९ सेप्टेम्बरमासः (हि.स.)। सेवापर्व-२०२६ अन्तर्गतम् मङ्गलवासरे कठुआजनपदे स्वच्छता-पर्यावरणसंरक्षण-सामुदायिकसहभागितासम्बद्धाः विविधाः गतिविधयः आयोजिताः। सर्वकारीय-कार्यालयेषु, बिलावरे, बसोहल्यां, कठुआनगरे, हीरानगरे च अधिकारिभिः, कर्मचारिभिः स्
'Seva Parv': Cleanliness drive and plastic-free initiative; book donation in Hiranagar.


कठुआ, २९ सेप्टेम्बरमासः (हि.स.)। सेवापर्व-२०२६ अन्तर्गतम् मङ्गलवासरे कठुआजनपदे स्वच्छता-पर्यावरणसंरक्षण-सामुदायिकसहभागितासम्बद्धाः विविधाः गतिविधयः आयोजिताः। सर्वकारीय-कार्यालयेषु, बिलावरे, बसोहल्यां, कठुआनगरे, हीरानगरे च अधिकारिभिः, कर्मचारिभिः स्थानीयजनैश्च स्वच्छता-भियानेषु सहभागं कृत्वा सार्वजनिक-स्थलानि स्वच्छानि स्थापयितुं सन्देशः प्रदत्तः।

बिलावरे अतिरिक्तजनपदाधिकारिणः विश्वजीतसिंहस्य निरीक्षणे स्वच्छता-भियानम् आयोजितम्। अस्मिन् अभियाने सः स्थानीयजनैः सह स्वयमपि सहभागं कृतवान्। अस्मिन् क्रमे आपणेभ्यः प्रतिबन्धितस्य एकवारप्रयोग्यप्लास्टिक इत्यस्य उपयोगस्य परीक्षणं कृत्वा आपणिकाः पर्यावरणानुकूलविकल्पान् स्वीकर्तुं जागरूकाः कृताः। कठुआनगरस्य शिवानगरक्षेत्रे जम्मू-कश्मीरप्रदूषण-नियन्त्रणसमित्याः दलं प्रतिबन्धित-पॉलिथीन इत्यस्य एकवारप्रयोज्य-प्लास्टिक इत्यस्य च विरुद्धं जागरूकताभियानं कार्यवाह्यभियानं च अचलयत्। अस्मिन् क्रमे प्रायः ६.५ किलोग्रामपरिमितं प्रतिबन्धित-पॉलिथीन तथा २०० ग्रामपरिमितम् एकवार-प्रयोग्यप्लास्टिक च अधिगृहीतम्।

तदनन्तरं हीरानगरस्य उपमण्डला-धिकारिकार्यालये पुस्तकदानकार्यक्रमः स्वच्छताभियानं च आयोजितम्। अधिकारिभिः कर्मचारिभिश्च पुस्तकानि दत्त्वा आवश्यकतावतां जनानां कृते शैक्षणिकसामग्रीं प्रापयितुं पठनसंस्कृतेः च प्रोत्साहनाय प्रयत्न: कृत:। हीरानगरस्य उपमण्डलाधिकारी फुलैलसिंहः जेकेएएस कार्यक्रमे सहभागं कृत्वा अधिकारिणां कर्मचारिणां च प्रयासानां प्रशंसां कृतवान्।

जनपदस्य अन्येषु सर्वकारीयकार्यालयेषु वनविभागस्य परिसरेषु च अपि स्वच्छतायाः प्लास्टिकमुक्तस्य च अभियानानि आयोजितानि। जनपदप्रशासनेन जनाः स्वच्छता-पर्यावरणसंरक्षण-सामुदायिक-सेवासम्बद्धाः एताः गतिविधयः निरन्तरं प्रवर्तयितुं आहूताः।

Hindusthan Samachar / Divya Ranjan