Enter your Email Address to subscribe to our newsletters

आइची-नागोया, 29 सितंबरमासः (हि.स.)।
एशियाक्रीडा २०२६ मध्ये भारतं मङ्गलवासरे उत्कृष्टं प्रदर्शनं कुर्वन् स्वकीयानां पदकानां संख्या त्रिपञ्चाशत्पर्यन्तं नीतवान्। भारतस्य खातायां अधुना षट् सुवर्णपदकानि, एकविंशतिः रजतपदकानि तथा षड्विंशतिः कांस्यपदकानि सन्ति। भारतं पदकतालिकायां दशमे स्थाने वर्तते।
मङ्गलवासरे निशानेबाजः नीरू धाण्डा महिलानां व्यक्तिगत ट्रैप् स्पर्धायां सुवर्णपदकं विजित्य भारताय दिवसस्य प्रथमं सुवर्णपदकं प्राप्तवती। नीरू २८ हिट् इत्यङ्कैः एशियाक्रीडासु नूतनं कीर्तिमानं स्थापितवती। सा एशियाक्रीडासु महिलानां व्यक्तिगत ट्रैप् स्पर्धायां पदकं विजेतुं प्रथमाभारतीयमहिला अपि अभवत्। एतत् भारतस्य पञ्चमं सुवर्णपदकम् आसीत्।
तदनन्तरं भारतीयमहिलानां ४x४०० मीटर् धावनस्य रिले दलं सुवर्णपदकं विजितवत्, येन भारतस्य सुवर्णपदकानां संख्या षट् अभवत्। किरण पहल, एम्. पूवम्मा, प्राची तथा विथ्या रामराज इत्येताभिः चतसृभिः धाविकाभिः निर्मितेन दलनेन ३:२९.६९ निमेषेषु स्पर्धा पूर्णीकृता।
एथलेटिक्स् क्रीडायां गुलवीर सिंहः पुरुषाणां ५००० मीटर् धावनस्पर्धायां कांस्यपदकं प्राप्तवान्। वर्तमानायाम् एशियाक्रीडायां तस्य एतत् तृतीयं व्यक्तिगतपदकम् अस्ति। सः पूर्वं १०,००० मीटर् तथा १५०० मीटर् धावनस्पर्धयोः रजतपदके विजितवान् आसीत्।
पूजा महिलानाम् उच्चकूर्दनस्पर्धायां कांस्यपदकं प्राप्तवती। भारतीयपुरुषाणां ४x४०० मीटर् रिले दलं तथा मिश्रितं ४x१०० मीटर् रिले दलं च अपि कांस्यपदकं प्राप्तवन्तौ।
मुष्टियुद्धस्पर्धायां नरेन्द्र बेरवालः पुरुषाणां ९० किलोग्रामात् अधिकभारवर्गे कांस्यपदकं प्राप्तुं सफलः अभवत्। उपान्त्यचक्रे तस्य कजाकिस्तानदेशस्य ऐबेक् ओरलबे इत्यनेन सह पराजयः अभवत्।
पदकतालिकायां चीनदेशः १४३ सुवर्णपदकैः, ६२ रजतपदकैः तथा ४९ कांस्यपदकैः सह आहत्य २५४ पदकैः प्रथमस्थाने वर्तते। जापानदेशः ४५ सुवर्णपदकैः, ७१ रजतपदकैः तथा ६७ कांस्यपदकैः सह कुलतः १८३ पदकैः द्वितीयस्थाने वर्तते। दक्षिणकोरियादेशः २४ सुवर्णपदकैः, २७ रजतपदकैः तथा ४४ कांस्यपदकैः सह कुलतः ९५ पदकैः तृतीयस्थाने वर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani