Enter your Email Address to subscribe to our newsletters

लखनऊ, २९ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः प्रदेशस्य अर्थव्यवस्थां एक-खर्बुद-अमेरिकीडॉलर-पर्यन्तं नेतुं कार्यं कुर्वद्भ्यः डेलॉयट्-संस्थायाः प्रतिनिधिभ्यः निर्देशं दत्तवान् यत् यः कश्चित् कार्ययोजनाप्रस्तावः सज्जीकृतः अस्ति, तस्य परिणामः धरातले दृश्येत। सः असन्तोषं प्रकटयन् अवदत् यत् विगतेषु प्रायः द्विवर्षेषु संस्थया सन्तोषजनकः प्रगतिः न कृता। सः प्रस्तावितासु कार्ययोजनासु यथाशीघ्रं कार्यारम्भस्यापि निर्देशं दत्तवान्।
पर्यटनमन्त्री डेलॉयट्-संस्थायाः प्रतिनिधिभ्यः निर्देशं दत्तवान् यत् नैमिषारण्यसहितेषु समीपस्थेषु अन्येषु तीर्थस्थलेषु रात्रिदृश्यचित्रकर्षका: स्थाप्येरन्। तदतिरिक्तं विन्ध्याचलधाम्नि चित्रकूटस्य च तीर्थस्थलेषु चित्रकर्षक-यन्त्राणि स्थाप्येरन्। एतानि चित्रकर्षक-यन्त्राणि १५ नवम्बरपर्यन्तं स्थापयित्वा दिसम्बरमासपर्यन्तं कार्यरूपेण स्थापयितुं सर्वतोभावेन प्रयासः क्रियेत। अनेन पर्यटकानाम् आगमनस्य तथ्याधारितं गणनं कर्तुं शक्यते। तदतिरिक्तं प्रदेशे भोजनालयानां पथिकभोजनालयानां च संख्या अपि सङ्गृह्येत। सः अवदत् यत् प्रदेशस्य १४ परिपथानाम् अन्तर्गतं ६० जनपदानां वास्तविकानि तथ्यानि तथा पर्यटकानां संख्यायां वृद्धेः तथ्याधारितं प्रतिवेदनं प्रस्तुतं क्रियेत।
पर्यटनमन्त्री अत्र गोमतीनगरस्थिते पर्यटनभवनस्य सभागारे प्रदेशस्य अर्थव्यवस्थां एक-खर्बुद-अमेरिकीडॉलर-पर्यन्तं नेतुं संस्थया सज्जीकृतायाः कार्ययोजनायाः भविष्यत्सामरिक-योजनानां च विषये व्यापकं विचारविमर्शं कुर्वन् आसीत्। अस्यां समीक्षा-सभायां मुख्यमन्त्रिणः सलाहकारः अवनीशावस्थी तथा विभागस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्। सः डेलॉयट्-संस्थां निर्देशितवान् यत् काश्यां, विन्ध्याचलधाम्नि, नैमिषारण्ये च निवेशस्य पर्यटनसंसाधनानां प्रचारस्य च कृते कार्ययोजना सज्जीक्रियताम्। सः अवदत् यत् कार्ययोजनायाः निर्माणेन सह तस्याः क्रियान्वयनेऽपि विशेषं ध्यानं दीयताम्।
मन्त्री अवदत् यत् उत्तरप्रदेशे पर्यटनक्षेत्रे पर्याप्तानि परिवर्तनानि अभवन्। विधि-व्यवस्थया सह सम्पर्कव्यवस्थापि सुदृढा कृता अस्ति। सः निर्देशं दत्तवान् यत् उत्तरप्रदेशे पर्यटनस्य १४ परिपथाः सन्ति। एतेषु परिपथेषु सम्बद्धानां स्थलानां सामाजिकमाध्यमानां विभिन्नमाध्यमैः तथा मार्गप्रदर्शनकार्यक्रमैः प्रचार-प्रसारः सुनिश्चितः क्रियेत। डेलॉयट्-संस्थया सूचितं यत् शीघ्रमेव विन्ध्याचलधाम्नि नैमिषारण्ये च पर्यटकानाम् आगमनं तेषाम् अनुभवं च आधारीकृत्य अभियानं सञ्चाल्यते। मन्त्री अवदत् यत् पर्यटकानाम् आगमनस्य गणनासम्बद्धानि तथ्यानि वास्तविकानि भवितुमर्हन्ति।
प्रदेशे चिकित्साक्षेत्रेऽपि ध्यानं दातुं आवश्यकता अस्ति। राजधानीसहितेषु अन्येषु बृहत्तरेषु जनपदेषु चिकित्सा-पर्यटनस्य विस्तारः भवति, अत्र विदेशीयपर्यटकानाम् संख्या अपि पर्याप्ता अस्ति। डेलॉयट्-निर्माण्या सूचितं यत् विगतेषु त्रिषु वर्षेषु १००० होटलभवनानां मानचित्राणि स्वीकृतानि सन्ति। एतेषां होटलानां निर्माणेन पर्यटकानां निवास-कालः वर्धिष्यते तथा अर्थव्यवस्थायाः सुदृढीकरणं भविष्यति। संस्थया अपि सूचितं यत् महिन्द्रा हॉलिडेज्-निर्माण्या वाराणस्याम् अयोध्यायां च ५०० कोटिरूप्यकाणां निवेशस्य प्रस्तावः कृतः अस्ति। तथैव इमैजिका वर्ल्ड इन्टरटेनमेण्ट् लिमिटेड्-निर्माण्या ग्रेटरनोएडायां ४०० कोटिरूप्यकाणां, टक्साल थिएटर-निर्माण्या वाराणस्यां २९५ कोटिरूप्यकाणां, राजदीप इन्फ्रा एण्ड सेल्स-निर्माण्या लखनऊनगरे २०० कोटिरूप्यकाणां तथा आईटीसी होटल्स-निर्माण्या लखनऊ नगरे ३५०-४०० कोटिरूप्यकाणां निवेशस्य प्रस्तावः सेवाक्षेत्रे कृतः अस्ति।
तदतिरिक्तं विद्यमानेषु होटलभवनेषु पर्यटकानां निवासाय कक्षाणां संख्या वर्धयितुं रणनीतिः सज्जीक्रियताम्। सभायां सूचितं यत् अयोध्यायां, लखनऊनगरे, मथुरायां च सर्वाधिकः निवेशः प्राप्तः अस्ति। सः अवदत् यत् एक-खर्बुद-अमेरिकी-डॉलर-अर्थव्यवस्थायाः लक्ष्यं प्राप्तुं पर्यटनं सुदृढविकासप्रेरकस्य रूपेण कार्यं कुर्वत् अस्ति। अस्य कृते आधारभूतसंरचनायाः विस्तारः, निजी-निवेशस्य वृद्धिः पर्यटनसेवानां गुणवत्तायाश्च सुधारः इत्येतेषु विशेषं बलं दीयते। नूतना पर्यटननीतिः प्रस्ताविता अस्ति। सा शीघ्रमेव अन्तिमरूपं प्राप्स्यति।
डेलॉयट्-संस्थायाः प्रतिनिधिभिः सूचितं यत् पर्यटकानाम् आगमनं तथा जीएसटी-रूपेण प्राप्तं राजस्वं सकारात्मकं वर्तते। तथैव बृहद्स्तरैः सम्बद्धानां सेवाभिः पर्यटकानां सहयोगेन च उत्साहवर्धकः परिणामः प्राप्तः अस्ति। प्रयागराजे, अयोध्यायां, वाराणस्यां, मथुरायां चित्रकूटे च सर्वाधिकाः पर्यटकाः आगताः, येन होटलभवनेषु निवासं कुर्वतां पर्यटकानां संख्या अत्यधिकरूपेण वर्धिता। पर्यटकाणां संख्यायां वृद्धेः कारणेन जून्, २०२६ पर्यन्तं ५८ कोटिपरिमिताः पर्यटकाः प्रदेशस्य भ्रमणं कृतवन्तः। प्रतिनिधिभिः अपि सूचितं यत् प्रदेशस्य अर्थव्यवस्थां एक-खर्ब-अमेरिकीडॉलर्-पर्यन्तं नेतुं डेलॉयट्-संस्था पर्यटनक्षेत्रं नूतनया रणनीत्या सज्जीकुर्वती अस्ति।
मुख्यमन्त्रिणः सलाहकारः अवनीशावस्थी डेलॉयट्-संस्थां निर्दिष्टवान् यत् कार्ययोजनायाः क्रियान्वयनस्य गतिः वर्ध्येत। सः अवदत् यत् पर्यटकानाम् आगमनस्य तथ्यानि तथ्याधारितानि भवितुमर्हन्ति। सः अयोध्यायाः, चित्रकूटस्य, विन्ध्याचलधाम्नः, नैमिषारण्यस्य च विषये बहुमूल्यान् विचारान् दत्तवान्। सः अवदत् यत् मुख्यमन्त्रिणः प्रदेशस्य अर्थव्यवस्थां एक-खर्बुद-अमेरिकीडॉलर-पर्यन्तं नेतुं संकल्पः अस्ति। अस्य लक्ष्यस्य प्राप्तौ पर्यटनविभागस्य महती भूमिका भविष्यति। पर्यटन-संस्कृति-धर्मार्थकार्य-विभागस्य अपरमुख्यसचिवः अमृताभिजातः निर्देशं दत्तवान् यत् पर्यटनस्य प्रोत्साहनाय कृतानां कार्याणां व्यापकः प्रचार-प्रसारः क्रियेत।
Hindusthan Samachar / Divya Ranjan