बरेका संस्थायाः मल्लः अर्जुन यादवः तथा उत्तररेल्वे संस्थायाः मल्लः दिनेशः कुस्तीस्पर्धायां स्वपराक्रमं प्रदर्शितवन्तौ।
बरेका मध्ये ६७ तमं पुरुषाणाम् अखिलभारतीय अन्तररेल्वे-कुस्तीस्पर्धायाः शुभारम्भः वाराणसी, २९ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते बनारस रेल इञ्जिन कारखाने अर्थात् बरेका इत्यत्र मङ्गलवासरे ६७ तमायाः पुरुषाणाम् अखिलभारतीय अन्तररेल्व
67वीं पुरुष अखिल भारतीय अंतर-रेलवे कुश्ती प्रतियोगिता में पहलवान


बरेका मध्ये ६७ तमं पुरुषाणाम् अखिलभारतीय अन्तररेल्वे-कुस्तीस्पर्धायाः शुभारम्भः

वाराणसी, २९ सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते बनारस रेल इञ्जिन कारखाने अर्थात् बरेका इत्यत्र मङ्गलवासरे ६७ तमायाः पुरुषाणाम् अखिलभारतीय अन्तररेल्वे-कुस्तीस्पर्धायाः शुभारम्भः अभवत्। बरेका कुस्तीक्रीडाकेन्द्रे आयोजिते उद्घाटनसमारोहे मुख्यातिथिरूपेण महाप्रबन्धकः आशुतोष पन्तः गुब्बारकान् उड्डाप्य दीपं प्रज्वाल्य च मल्लानाम् उत्साहवर्धनं कृतवान्।

बरेका संस्थायाः मल्लः अर्जुन यादवः उत्तररेल्वे संस्थायाः मल्लः दिनेशः च उद्घाटनमुकाबले परस्परं सम्मुखौ अभवताम्। महाप्रबन्धकेन आशुतोष पन्तेन उभयोः मल्लयोः हस्तौ मिलित्वा स्पर्धायाः शुभारम्भः कारितः। फ्रीस्टाइल-कुस्त्याः ६९ किलोग्रामभारवर्गे बरेका संस्थायाः अर्जुन यादवः उत्कृष्टं प्रदर्शनं कृत्वा विजयम् अवाप्तवान्।

उल्लेखनीयं यत् भारतीयरेलस्य अस्यां स्पर्धायां उत्तररेल्वे, मध्यरेल्वे, पश्चिमरेल्वे, उत्तरपश्चिमरेल्वे, उत्तरमध्यरेल्वे, रेलकोच कारखाना, बनारस रेल इञ्जिन कारखाना, रेलसुरक्षाबलम्, पूर्वोत्तररेल्वे, पूर्वमध्यरेल्वे, रेल्वेबोर्ड, पश्चिममध्यरेल्वे तथा दक्षिणपश्चिमरेल्वे इत्येताभिः सह कुलं त्रयोदश दलानि भागं गृह्णन्ति।

बरेका संस्थायाः जनसम्पर्काधिकारिणः अनुसारं प्रतियोगितायां फ्रीस्टाइल-कुस्त्यां ५७, ६१, ६५, ७०, ७४, ७९, ८६, ९२, ९७ तथा १२५ किलोग्रामभारवर्गेषु, ग्रीको-रोमन-कुस्त्यां च ५५, ६०, ६३, ६७, ७२, ७७, ८२, ८७, ९७ तथा १३० किलोग्रामभारवर्गेषु मुकाबलाः आयोजिताः भवन्ति।

६७ तमस्य पुरुषाणाम् अखिलभारतीय अन्तररेल्वे-कुस्तीस्पर्धायां फ्रीस्टाइल-कुस्त्याः ७०, ९२, ७९ तथा ६१ किलोग्रामभारवर्गेषु, ग्रीको-रोमन-कुस्त्याः ५५, ७२, ८७ तथा १३० किलोग्रामभारवर्गेषु च सुवर्ण, रजत तथा कांस्यपदकानां विजेतॄणां निर्णयः भविष्यति।

मल्लानां उत्कृष्टैः दावपेचैः सामर्थ्यपूर्णप्रदर्शनेन च कुस्तीक्रीडाप्रेमिणः उत्साहिताः सन्ति। प्रतियोगितायाः मध्ये क्रीडाप्रेमिभिः करताडनस्य घोषेण उत्साहवर्धनेन च क्रीडकानां मनोबलं वर्धितम् तथा च मुकाबलानां रोमाञ्चः चरमसीमां प्राप्तवान्।

प्रतियोगितायां ओलम्पिकक्रीडास्पर्धासु भागं गृहीतवन्तः अर्जुनपुरस्कारेण सम्मानिताः च मल्लाः विशेषाकर्षणस्य केन्द्रम् अभवन्। अस्मिन् अवसरे बरेका क्रीडासङ्घस्य अध्यक्षः तथा प्रमुखमुख्यविद्युतभियन्ता मनीषकुमारः, प्रमुखमुख्ययान्त्रिकभियन्ता विवेकशीलः, प्रमुखमुख्यसामग्रीप्रबन्धकः आलोक अग्रवालः, प्रधानवित्तपरामर्शदाता मुक्तेश मित्तलः, प्रमुखमुख्याभियन्ता रामजन्मा च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani