Enter your Email Address to subscribe to our newsletters

कोलकाता, 29 सितंबरमासः (हि.स.)। पश्चिमबङ्गराज्यं स्वकीयानि औद्योगिकस्वप्नानि साकारयितुं निर्णायकस्य परिवर्तनबिन्दोः समीपे वर्तते। ‘व्यापारः’ तथा ‘प्रौद्योगिकी’ इति आर्थिकविकासस्य द्वौ प्रमुखौ आधारौ स्तः, यौ पश्चिमबङ्गराज्यं औद्योगिकीकरणस्य नूतनां ऊर्ध्वतां नेतुं समर्थौ स्तः। एतत् केन्द्रीयवाणिज्य-उद्योग-विद्युत्सञ्चार-सूचनाप्रौद्योगिकी राज्यमन्त्री जितिन प्रसादः मङ्गलवासरे कलकत्ता वाणिज्यमण्डलस्य १९५ तमस्य वार्षिकसामान्योपवेशनस्य अवसरं सम्बोधयन् उक्तवान्।
केन्द्रीयमन्त्री जितिन प्रसादः भारतस्य वर्धमानस्य वैश्विकव्यापारिकप्रभावस्य विषये विस्तरेण चर्चां कृतवान्। सः उक्तवान् यत् भारतद्वारा सद्यः सम्पन्नैः मुक्तव्यापारसम्झौतैः घरेलूउद्यमेभ्यः विकसितविश्वस्य ६५ तः ७५ प्रतिशतपर्यन्तेषु विपणिषु शुल्कमुक्तप्रवेशस्य अवसरः प्राप्तः अस्ति। जितिन प्रसादः विशेषरूपेण अवदत् यत् एषः पश्चिमबङ्गस्य व्यापारिकसमुदायाय अभूतपूर्वः अवसरः अस्ति।
जितिन प्रसादः उक्तवान् यत् व्यापारः प्रौद्योगिकी च भारतस्य विकासयात्रायै नूतनां गतिं प्रदत्तः। विकसितदेशाः यत्र प्रौद्योगिकीविशेषज्ञतां आनयन्ति, तत्र भारतं तेषां कृते अद्वितीयं व्यापकमापमानं, विशालं विपणिं तथा उत्कृष्टां प्रतिभां च प्रददाति। सः वैश्विकनिवेशकान् आहूतवान् यत् ते भारतं केवलं ‘उपभोक्तृविपणिरूपेण’ न पश्येयुः, अपितु भारतीयैः नवोद्यामिभिः घरेलूउद्योगैः च सह प्रत्यक्षं सहकार्यं कृत्वा संयुक्तोद्यमानि स्थापयेयुः।
पश्चिमबङ्गस्य औद्योगिकविकासं प्रति केन्द्रसर्वकारस्य प्रतिबद्धतां पुनः प्रतिपादयन् जितिन प्रसादः उक्तवान् यत् पश्चिमबङ्गस्य क्षेत्रीयस्य ‘रसदकेन्द्रस्य’ रूपेण महत्त्वपूर्णाः रणनीतिकलाभाः सन्ति। पश्चिमबङ्गस्य समीपे उत्तमं पत्तनसम्पर्कव्यवस्था अस्ति। तत्र इस्पात्, वस्त्रोद्योगः, रसायनोद्योगः, विनिर्माणं च इत्यादयः स्थापिताः उद्योगक्षेत्राः अपि सन्ति। सः आश्वासनं दत्तवान् यत् केन्द्रसर्वकारः राज्यस्य प्राथमिकतानां विचारं कृत्वा पश्चिमबङ्गे आधुनिकं तथा ‘तत्कालोपयोगाय सिद्धं’ औद्योगिकमूलसंरचनं स्थापयितुं कार्यं करोति। जितिन प्रसादस्य दावानुसारम् एताभिः योजनाभिः राज्यस्य व्यापारसम्बद्धाः बाधाः दूरीभविष्यन्ति तथा पश्चिमबङ्गस्य औद्योगिकस्य ‘स्वर्णयुगस्य’ पुनरागमनं सम्भवं भविष्यति।
व्यापारस्य सुगमीकरणाय क्रियमाणानां विनियामकसुधाराणां उल्लेखं कुर्वन् केन्द्रीयमन्त्री उक्तवान् यत् केन्द्रसर्वकारः नौकरशाहीसम्बद्धां दीर्घसूत्रतां दूरीकरोति। तदर्थं अङ्कीयस्वीकृतिव्यवस्था, वाणिज्यमन्त्रालयस्य कार्यालयानां एकलप्रकोष्ठव्यवस्थायाः अन्तर्गतं समावेशनं तथा जिलास्तरे निर्यातप्रोत्साहनकेन्द्राणां स्थापना इत्यादयः उपायाः क्रियन्ते। सः अपि उक्तवान् यत् ‘जनविश्वास’ इति संरचनायाः अन्तर्गतं लघुतान्त्रिकापराधानां अपराधश्रेणीतः बहिष्करणं क्रियते, येन उद्योगजगति भयस्य स्थाने विश्वासस्य वातावरणं निर्मीयेत।
उच्चप्रौद्योगिकीविनिर्माणक्षेत्रे पश्चिमबङ्गस्य क्षमतां रेखाङ्कयन् केन्द्रीयमन्त्री उक्तवान् यत् राज्यस्य कुशलं कार्यबलं विशेषतः वैद्युतिकोपकरणानां तथा अर्धचालकनिर्माणस्य अभिकल्पनाक्षेत्रस्य कृते अत्यन्तम् अनुकूलम् अस्ति। नवीनासु उद्भवन्तीषु च प्रौद्योगिकीषु चर्चां कुर्वन् सः उद्योगजगतः आहूतवान् यत् कृत्रिमबुद्धिमत्तायाः उपयोगः केवलं सामान्यस्य अन्तर्जाल-अन्वेषणस्य सीमायां न स्थापयित्वा व्यावहारिकं आर्थिकप्रभावं जनयितुं क्रियताम्। सः सुझावं दत्तवान् यत् कृत्रिमबुद्धिमत्तायाः उपयोगः तादृशरीत्या करणीयः येन सूक्ष्मलघुमध्यमोद्यमानां उत्पादनव्ययः न्यूनीभवेत् तथा कृषकेभ्यः प्रत्यक्षलाभः प्राप्येत।
स्वकीयस्य सम्बोधनस्य अन्ते जितिन प्रसादः देशस्य १६०० अधिकेभ्यः वाणिज्यमण्डलेभ्यः आह्वानं कृतवान् यत् ते स्थानीयस्तरस्य उद्योगानां नीतिनिर्मातॄणां च मध्ये सुदृढं सेतुरूपं कार्यं कुर्युः। सः स्पष्टतया उक्तवान् यत् केन्द्रसर्वकारः पश्चिमबङ्गे दीर्घकालिकं नीत्याधारितं च औद्योगिकपरिवर्तनं आनेतुं पूर्णतया संकल्पितः अस्ति।----------------
Hindusthan Samachar / Dheeraj Maithani