Enter your Email Address to subscribe to our newsletters

गुवाहाटी, ३० सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा बुधवासरे उक्तवान् यत् असमराज्यं स्वकीयं चतुर्थं कृषिमहाविद्यालयं प्राप्तुं गच्छति। राज्यस्य मन्त्रिमण्डलेन बराक-उपत्यकायाः पथारकान्द्यां चतुरशीत्य-धिकषट्-दशमलव-षड् एकरपरिमितां भूमिं प्रदातुं अनुमोदनं प्रदत्तम् अस्ति।
सामाजिकमाध्यममञ्चे फेसबुक् इत्यस्मिन् डॉ. सरमणा उक्तं यत् प्रस्तावितं संस्थानं बराक-उपत्यकायाः प्रथमं कृषिमहाविद्यालयं भविष्यति। मुख्य-मन्त्रिणा उक्तं यत् अनेन प्रयत्नेन युवभ्यः कृषिविषयकाध्ययनस्य, अनु-सन्धानस्य नवोन्मेषस्य च अवसराः सृज्यन्ते।
मुख्यमन्त्री डॉ. हिमन्तविश्वसरमा उक्तवान्, “असमः स्वकीयं चतुर्थं कृषिमहाविद्यालयं तथा बराक-उपत्यका स्वकीयं प्रथमं कृषिमहाविद्यालयं प्राप्तुं गच्छति।” सः अग्रे उक्तवान् यत् अस्यै परियोजनायै पथारकान्द्यां चतुरशीत्यधिकषट्-दशमलव-षड् एकरपरिमितां भूमिं प्रदातुं मन्त्रिमण्डलेन अनुमोदनं प्रदत्तम् अस्ति।
ज्ञातव्यं यत् बराक-उपत्यकायाः जनाः प्रारम्भादेव एतत् आरोपयन्तः आसन् यत् राज्यसर्वकारः केवलं ब्रह्मपुत्र-उपत्यकायाः विकासे ध्यानं ददाति तथा बराक-उपत्यकायाः उपेक्षा क्रियते। किन्तु वर्तमानसर्वकारस्य कार्यकाले ब्रह्मपुत्र-उपत्यकया सह समानरूपेण बराक-उपत्यकायाः विकासाय अपि अनेके प्रयत्नाः कृताः, येन उपेक्षायाः विषयाः अधुना इतिहासस्य पृष्ठेषु विलीनाः अभवन्।
मन्त्रिमण्डलस्य अस्य निर्णयस्य विषये बराक-उपत्यकायाः जनानां मध्ये महदुत्साहः दृश्यते।
Hindusthan Samachar / Divya Ranjan