Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य अन्ताराष्ट्रिय-सम्पर्ककार्यक्रमस्य ‘भाजपां जानीहि’ इत्यस्य अन्तर्गतं श्रीलङ्कायाः सत्तारूढ-दलस्य जनता-विमुक्ति-पेरमुणा इत्यस्य प्रतिनिधिमण्डलं बुधवासरे दिल्ली-भाजपाकार्यालयम् आगतवान्। प्रतिनिधि-मण्डलस्य नेतृत्वं जेवीपी-दलस्य महामन्त्री एम. तिल्विन् सिल्वा अकरोत्।प्रतिनिधिमण्डले जेवीपी-केन्द्रीयसमितेः सदस्या चन्द्रिका अधिकारी, श्रीलङ्कायाः सांसदः अबूबकर अथम्बावा, जाफना-नगरपरिषदः सदस्यः काबिलन् सुन्दरमूर्तिः तथा श्रीलङ्कासंसदः नेतुः समन्वय-सचिवा बी.आर.के. मधुभाषिणी च सम्मिलिताः आसन्।
दिल्ली-भाजपाध्यक्षः हर्षमल्होत्रा, सङ्गठनमहामन्त्री पवनराणः तथा वरिष्ठ-पदाधिकारिणः विष्णुमित्तलः, योगितासिंहः, विजयसोलङ्की तथा ऋचापाण्डेयः प्रतिनिधिमण्डलस्य स्वागतं कृतवन्तः।
अस्मिन् अवसरे दिल्ली-भाजपाध्यक्षः हर्षमल्होत्रा अवदत् यत् भारत-श्रीलङ्कयोः सम्बन्धाः केवलं कूटनीतिकाः न सन्ति, अपितु सभ्यता-संस्कृतिभ्याम् आस्थया च सम्बद्धाः सन्ति। रामायणकालात् बौद्धधर्मस्य प्रसारपर्यन्तं द्वयोः देशयोः मध्ये गहनाः ऐतिहासिकाः सांस्कृतिक्यश्च सम्बन्धाः अभवन्। तेन उक्तं यत् समुद्रः द्वयोः देशयोः मध्ये भौगोलिकं पृथक्त्वं करोति, किन्तु उभयोः देशयोः जनानां मनांसि विचाराश्च परस्परं सम्बद्धाः सन्ति।
तेन उक्तं यत् अद्य वैश्विकसमस्यापूर्णे काले समीपस्थैः देशैः सह मैत्री सहयोगश्च अधिकम् आवश्यकौ अभवताम्। भारत-श्रीलङ्कयोः मध्ये आर्थिकसहायता, ऊर्जासहयोगः, समुद्रीसुरक्षा, स्वास्थ्यं, अङ्कीयसम्पर्कता इत्यादिषु विविधेषु क्षेत्रेषु सहयोगः वर्धितः अस्ति।
मल्होत्रः अवदत् यत् कोविड्-१९-महामारिकाले ‘वैक्सीन मैत्री’ इति कार्यक्रमः तथा श्रीलङ्कायाः आर्थिक-सङ्कटकाले भारतस्य प्रदत्ता सहायता उभयोः देशयोः मैत्र्याः उदाहरणे स्तः। तेन उक्तं यत् भारतीयजनतापक्षः सुदृढानां समीपस्थदेशानां माध्यमेन सुदृढप्रदेशस्य निर्माणे विश्वासं करोति।
तेन उक्तं यत् लोकतन्त्रस्य, पारदर्शितायाः, जनकल्याणस्य च सहभाग-मूल्यानाम् आधारेण भारत-श्रीलङ्कयोः सम्बन्धाः अधिकं सुदृढाः कर्तुं शक्यन्ते। तेन विश्वासः प्रकटितः यत् दिल्ली-भाजपा-जेवीपी-द्वयोः मध्ये एषः संवादः उभयोः देशयोः सम्बन्धान् अधिकं गभीरान् कर्तुं सहायको भविष्यति। तेन ‘समीपस्थदेशाः प्रथमम्’ इति नीतिं सुदृढीकर्तुं विशेषं बलं प्रदत्तम्।अस्मिन् अवसरे भाजपायाः विदेश-विभागस्य पदाधिकारी विजयचौथाईवाले तथा नकुलभारद्वाजः, दिल्ली-भाजपायाः माध्यमप्रमुखः प्रवीणशङ्करकपूरः तथा कार्यालयमन्त्री कैलाशजैनः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan