भाजपाप्रदेशकार्यालये राष्ट्रवादिनः राजनीतेः सांस्कृतिकराष्ट्रवादस्य च विषये चर्चा
गुवाहाटी, 30 सितंबरमासः (हि.स.)। गुवाहाटीनगरे स्थिते भाजपाप्रदेशमुख्यालये अटलबिहारीवाजपेयीभवने बुधवासरे ‘राष्ट्रवादिनी राजनीतिः सांस्कृतिकराष्ट्रवादश्च’ इति विषये चर्चा आयोजिताऽभवत्। कार्यक्रमे असमप्रदेशस्य प्रमुखः राष्ट्रियस्वयंसेवकसङ्घस्य कार्य
Assam BJP Headquarters


गुवाहाटी, 30 सितंबरमासः (हि.स.)।

गुवाहाटीनगरे स्थिते भाजपाप्रदेशमुख्यालये अटलबिहारीवाजपेयीभवने बुधवासरे ‘राष्ट्रवादिनी राजनीतिः सांस्कृतिकराष्ट्रवादश्च’ इति विषये चर्चा आयोजिताऽभवत्। कार्यक्रमे असमप्रदेशस्य प्रमुखः राष्ट्रियस्वयंसेवकसङ्घस्य कार्यकर्ता तीर्थङ्करदासकलिता वक्तृरूपेण स्वविचारान् प्रस्तुतवान्। सत्रस्य शुभारम्भः भाजपायाः मुख्यप्रवक्ता किशोरउपाध्यायेन कृतः। सः प्रतिभागिनः स्वागतीकृत्य वक्तुः परिचयं कारितवान्।

कलितेन राष्ट्रवादस्य सांस्कृतिकराष्ट्रवादस्य च संकल्पनयोः तथा भारतीयसभ्यतागतदृष्टिकोणे तयोः स्थानस्य च विषये विस्तरेण चर्चा कृता। सः राष्ट्रः, धर्मः संस्कृतिः इत्यादीनां शब्दानाम् अर्थान् स्पष्टीकुर्वन् अवदत् यत् आङ्ग्लभाषायाः ‘नेशन’, ‘रिलिजन’, ‘कल्चर’ इत्येते शब्दाः तेषाम् अर्थान् पूर्णतया व्यक्तुं न शक्नुवन्ति।

सः भारतस्य ऐतिहासिकपरम्पराणाम् उल्लेखं कुर्वन् अवदत् यत् भारतीयसभ्यतागतदृष्टिकोणे शासकाः राजानश्च अपि विधेः अधीनाः मन्यन्ते स्म। सः सामूहिककल्याणस्य सभ्यतागत राष्ट्रवादस्य च संकल्पनायामपि बलं दत्तवान्।

कलितेन जनजातीयतायाः, क्षेत्रवादस्य राष्ट्रवादस्य च अन्तरस्य विषये चर्चा कृता। सः जनजातीयसमुदायेषु ब्रिटिशऔपनिवेशिकनीतीनां प्रभावस्य उल्लेखं कृत्वा आरोपितवान् यत् औपनिवेशिकशासनेन एतेषां समुदायानां शोषणं कृतम्, तान् पृथक्कृत्य विविधासु श्रेणीषु विभक्ताः च। तेन दावितं यत् स्वातन्त्र्यप्राप्तेः अनन्तरमपि काङ्ग्रेससर्वकारस्य काले विभिन्नरूपैः एतादृश्यः प्रवृत्तयः प्रचलिताः।

सः भाजपायाः अन्त्योदयस्य संकल्पनां विकेन्द्रीकरणेन समाजस्य अन्तिमजनपर्यन्तं विकासं प्रापयितुं च सम्बध्य व्याख्यातवान्। राष्ट्रवादस्य विकासस्य उल्लेखं कुर्वन् कलितः अवदत् यत् आधुनिकपाश्चात्त्यराजनैतिकसन्दर्भे राष्ट्रवादः तुलनया नूतना संकल्पना अस्ति, किन्तु भारतस्य विषये तस्य दृष्ट्या भौगोलिकविविधतायाः सत्त्वेऽपि ऐतिहासिकरूपेण एका साझा सभ्यतागतपरिचितिः आसीत्।

पूर्वकेन्द्रीयमन्त्रिण्या सुषमास्वराजया सांस्कृतिकराष्ट्रवादस्य व्याख्यायाः उल्लेखं कुर्वन् सः असमे निवसतः एकस्य बङ्गालीपरिवारस्य स्वशिशोः ‘सोमनाथ’ इति नामकरणस्य उदाहरणं दत्तवान्। तेन उक्तं यत् एतत् क्षेत्रीयसीमानाम् अतिक्रमणेन भारतस्य सांस्कृतिकसम्बन्धानाम् उदाहरणम् अस्ति।

कलितेन ‘वसुधैव कुटुम्बकम्’ इत्यस्याः संकल्पनायाः वर्तमानसमाजे प्रासङ्गिकतायाश्च विषये अपि चर्चा कृता। सः भारतस्य राष्ट्रियादर्शवाक्यस्य ‘सत्यमेव जयते’ इत्यस्य उल्लेखं कृत्वा तस्य उपनिषदः उद्भवस्य विषये सूचितवान्। भारतीयसभ्यतागतपरम्पराणां, हिन्दुत्वस्य संवैधानिकव्यवस्थायाश्च मध्ये सम्बन्धस्य विषये अपि तेन स्वविचाराः प्रस्तुताः।

कार्यक्रमस्य अन्ते प्रश्नोत्तर-सत्रम् आयोजितम्, यस्मिन् प्रतिभागिभिः विविधविषयेषु प्रश्नाः पृष्टाः तथा कलितेन तेषाम् उत्तराणि प्रदत्तानि। मुख्यप्रवक्ता किशोरउपाध्यायेन धन्यवादज्ञापनं कृतम्। सः चर्चायां स्वविचारान् प्रस्तुतवते कलिताय तथा कार्यक्रमे सम्मिलितेभ्यः सर्वेभ्यः प्रतिभागिभ्यः आभारं प्रकटितवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani