Enter your Email Address to subscribe to our newsletters

करणजोहरस्य चर्चितः सेलिब्रिटीसम्भाषणकार्यक्रमः ‘कॉफी विद करण’ अधुना अन्तिमपर्वं प्राप्तः अस्ति। करणजोहरः घोषितवान् यत् कार्यक्रमस्य नवमं सत्रम् एव अन्तिमं सत्रं भविष्यति। प्रायः द्वाविंशतिवर्षेभ्यः यावत् हिन्दीचलच्चित्रजगतः तारकाणां वार्तालापान्, रहस्योद्घाटनानि विवादांश्च दर्शकेभ्यः प्रापयन् अयं कार्यक्रमः अक्तूबरमासस्य चतुर्दशदिनाङ्कात् जियो हॉटस्टारे प्रसारितः भविष्यति।
कार्यक्रमस्य नूतने प्रचारदृश्ये करणजोहरः तस्य दीर्घयात्रायाः स्मरणं कुर्वन् अवदत् यत् एषा यात्रा अप्रत्याशिता, स्पष्टवक्तृता पूर्णा, बहुवारम् अव्यवस्थितापि आसीत्, तथापि सा सर्वदा चर्चायां स्थिता।
प्रचारदृश्ये करणजोहरः कार्यक्रमसम्बद्धानां विवादानां वर्षाणां च अनुभवानाम् अपि विषये चर्चां कृतवान्। सः विनोदमिश्रितेन भावेन अवदत् यत् सः देशस्य बहूनां प्रमुखव्यक्तीनां कार्यजीवनं प्रायः समाप्तवान् आसीत् तथा अद्यापि ‘नेपोटिज्म’ इति शब्दस्य आरोपस्य सामना करोति। सः एतदपि अवदत् यत् ‘कन्जेक्चर’ अर्थात् अनुमानमपि कार्यक्रमस्य यात्रायाः एकः भागः अभवत्।
वस्तुतः ‘कॉफी विद करण’ कार्यक्रमे चलचित्रतारकेभ्यः पृष्टाः प्रश्नाः तेषां स्पष्टानि उत्तराणि च प्रायः समाचारमाध्यमेषु चर्चितानि भवन्ति स्म। बहुषु अवसरेषु कार्यक्रमे उक्तानि वचनानि कृतानि च रहस्योद्घाटनानि दीर्घकालपर्यन्तं चर्चायां स्थितानि।
‘कॉफी विद करण’ इत्यस्य प्रारम्भः १९ नवम्बर २००४ तमे वर्षे अभवत् तथा २०२६ तमवर्षपर्यन्तं कार्यक्रमेण द्वाविंशतिवर्षाणां यात्रा पूर्णा। एतेषु वर्षेषु कार्यक्रमेण हिन्दीचलच्चित्रजगतः अनेकाः चर्चिताः व्यक्तयः एकस्मिन् मञ्चे समानीताः तथा तेषां व्यक्तिगतजीवनस्य, कार्यजीवनस्य, चलचित्रयात्रायाश्च सम्बद्धाः अनेकाः पक्षाः दर्शकानां पुरतः प्रस्तुताः।
अधुना नवमेन अन्तिमेन च सत्रेण करणजोहरः अस्य यात्रायाः समापनं कर्तुं गच्छति। प्रचारदृश्ये सः एतत् भावुकं क्षणम् इति वर्णितवान् तथा अन्तिमवारं स्वस्य चर्चितेन कॉफीपात्रेण सह दर्शकैः सम्मुखं उपस्थितुं सज्जः अस्ति।
Hindusthan Samachar / Dheeraj Maithani