विजयकुमारमल्होत्रावर्यस्य प्रथमपुण्यतिथौ हर्षमल्होत्रासहितैः भाजपानेतृभिः श्रद्धाञ्जलिः प्रदत्ता
नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतादलस्य संस्थापकसदस्यः, दिल्ली-भाजपादलस्य पूर्वाध्यक्षः तथा वरिष्ठः लोकप्रतिनिधिः प्रो. विजयकुमार-मल्होत्रावर्यः। तस्य प्रथमपुण्यतिथौ दिल्ली-भाजपादलाध्यक्षः हर्षमल्होत्रा-सहितैः दलस्य वरिष्ठैः नेतृभिः पद
प्रो. विजय कुमार मल्होत्रा की प्रथम पुण्यतिथि पर दिल्ली भाजपा अध्यक्ष हर्ष मल्होत्रा सहित पार्टी के वरिष्ठ नेताओं एवं पदाधिकारियों ने उन्हें श्रद्धांजलि देते हुए।


नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतादलस्य संस्थापकसदस्यः, दिल्ली-भाजपादलस्य पूर्वाध्यक्षः तथा वरिष्ठः लोकप्रतिनिधिः प्रो. विजयकुमार-मल्होत्रावर्यः। तस्य प्रथमपुण्यतिथौ दिल्ली-भाजपादलाध्यक्षः हर्षमल्होत्रा-सहितैः दलस्य वरिष्ठैः नेतृभिः पदाधिकारिभिश्च तस्मै श्रद्धाञ्जलिः अर्पिता।बुधवासरे दिल्ली-भाजपाकार्यालये आयो-जिते श्रद्धाञ्जलिकार्यक्रमे नेतृभिः प्रो. मल्होत्रावर्यस्य चित्रे माल्यार्पणं कृत्वा पुष्पाञ्जलिः समर्पिता।

अस्मिन् अवसरे दिल्ली-भाजपादलाध्यक्षः हर्षमल्होत्रः उक्तवान् यत् प्रो. विजयकुमारमल्होत्रावर्यस्य प्रथम-पुण्यतिथिः सर्वेषां कृते भावुकः अवसरः अस्ति। सः उक्तवान् यत् प्रो. मल्होत्रा वरिष्ठभाजपानेता, सांसदः तथा दिल्ली-भाजपादलस्य पूर्वाध्यक्षः इत्येतैः रूपैः सह सङ्गठनस्य कुशलकार्यकर्ता अनुशासन-प्रियव्यक्तित्वं च इति रूपेण सदैव स्मरिष्यते।

हर्षमल्होत्रा उक्तवान् यत् प्रो. मल्होत्रा जनसङ्घस्य कालादेव राजनैतिक्षेत्रे सक्रियः आसीत् तथा च दिल्ली इत्यस्य सङ्घटनं धरातलपर्यन्तं सुदृढं कर्तुं तस्य महत्त्वपूर्णा भूमिका आसीत्। स्वस्य राजनैतिकजीवने सः सरलतायाः, सेवायाः अनुशासनस्य च विशेषं महत्त्वं दत्तवान्।

सः उक्तवान् यत् क्रीडाक्षेत्रेऽपि प्रो. मल्होत्रावर्यस्य महत्त्वपूर्णं योगदानम् आसीत्। अखिलभारतीयक्रीडापरिषदः भारतीयधनुर्विद्यासङ्घस्य च अध्यक्षरूपेण सः युवानः क्रीडाभिः सह संयोजयितुं तथा क्रीडागतिविधिनां प्रोत्साहने योगदानं दत्तवान्।

दिल्ली-भाजपादलाध्यक्षः उक्तवान् यत् प्रो. विजयकुमारमल्होत्रावर्यस्य जीवनं सेवा-राष्ट्रभक्त्योः समर्पणस्य च उदाहरणम् आसीत्। सः राजनीतिक्षेत्रे क्रीडाक्षेत्रे च सत्य-अनुशासनयोः दलभावनायाश्च महत्त्वं स्थापितवान्। सः उक्तवान् यत् प्रो. मल्होत्रावर्यस्य अभावः अद्यापि अनुभूयते तथा च तस्य आदर्शानां सेवाभावस्य च अग्रे संवर्धनमेव तस्मै सत्या श्रद्धाञ्जलिः भविष्यति।

श्रद्धाञ्जलिकार्यक्रमे प्रदेशसहप्रभारी दर्शना जरदोशः, भाजपादलस्य वरिष्ठ-नेतारः जगदीशमुखी, वेदव्यासमहाजनः, सुभाष-आर्यः, आदेशगुप्तः, सुभाषसचदेवः, डॉ. विजयजौली, कर्नलः वी.के. ओबरॉयः इत्यादयः तथा प्रदेशपदाधिकारिणः विष्णुमित्तलः, योगितासिंहः, विधायकः अनिलशर्मा, राजेशभाटिया, प्रवीणशङ्कर-कपूरः, कैलाशजैनः, विजयसोलङ्की, रणजीतकश्यपः, ऋचापाण्डेयः, अभिषेक-टण्डनः, मनोजकुमारः, राजगौतमः, अमितगुप्तः, सन्तोषपालः, सी.एल. मीणा इत्यादयः अन्ये नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan