चिराङ्गस्य जवाहरनवोदयविद्यालये सृजनात्मकहिन्दीलेखनकार्यशाला तथा हिन्दीपुस्तकप्रदर्शिनी च आयोजिते
चिराङ्गः (असमः), ३० सेप्टेम्बरमासः (हि.स.)।नगरराजभाषाकार्यान्वयनसमितेः, बङ्गाईग्रामस्य, तत्त्वावधानेन बङ्गाईग्राम-शोधनागारस्य पक्षतः अद्य चिराङ्गस्य जवाहरनवोदयविद्यालये ‘सृजनात्मकहिन्दीलेखनम्’ इति विषये कार्यशाला तथा हिन्दीपुस्तकप्रदर्शिनी च आयोजित
जवाहर नवोदय विद्यालय, चिरांग में सृजनात्मक हिन्दी लेखन कार्यशाला एवं हिन्दी पुस्तक प्रदर्शनी।


जवाहर नवोदय विद्यालय, चिरांग में सृजनात्मक हिन्दी लेखन कार्यशाला एवं हिन्दी पुस्तक प्रदर्शनी।


चिराङ्गः (असमः), ३० सेप्टेम्बरमासः (हि.स.)।नगरराजभाषाकार्यान्वयनसमितेः, बङ्गाईग्रामस्य, तत्त्वावधानेन बङ्गाईग्राम-शोधनागारस्य पक्षतः अद्य चिराङ्गस्य जवाहरनवोदयविद्यालये ‘सृजनात्मकहिन्दीलेखनम्’ इति विषये कार्यशाला तथा हिन्दीपुस्तकप्रदर्शिनी च आयोजिते। कार्यक्रमस्य उद्देश्यं विद्यार्थिषु हिन्दीभाषायाः साहित्यं च प्रति रुचेः विकासेन सह तेषां कल्पनाशीलतायाः, सृजनात्मकाभिव्यक्तेः लेखनकौशलस्य च प्रोत्साहनम् आसीत्।

कार्यक्रमस्य शुभारम्भः जवाहरनवोदय-विद्यालयस्य, चिराङ्गस्य, प्राचार्यस्य राकेशकुमारचतुर्वेदिवर्यस्य मार्गदर्शनेन अभवत्। विद्यार्थिभ्यः शिक्षकभ्यश्च सम्बोधयन् सः उक्तवान् यत् भाषा केवलं विचाराणाम् अभिव्यक्तेः माध्यमं नास्ति, अपितु सा व्यक्तेः संवेदनानां, कल्पनानां सृजनात्मक-चिन्तनस्य च स्वरूपनिर्माणे महत्त्वपूर्णं साधनम् अस्ति। सः विद्यार्थिनः नियमित-रूपेण हिन्दी-साहित्यस्य पठनाय तथा स्वानुभवानां कल्पनानां च लेखन-माध्यमेन अभिव्यक्तये प्रेरितवान्।

कार्यशालायाः मुख्यसंकायसदस्यः युवा-कविः रङ्गकर्मी च मो.रहमानः विद्यार्थिभ्यः सृजनात्मकलेखनस्य विविधाभिः विधाभिः परिचयं कारितवान्। कार्यक्रमस्य प्रमुखम् आकर्षणं हिन्दीपुस्तकप्रदर्शिनी आसीत्। प्रदर्शिन्यां हिन्दी-साहित्यसम्बद्धानां पुस्तकानां, कवितानां, कथानां, बाल-साहित्यस्य, ज्ञानविज्ञानसम्बद्धानां तथा विभिन्न-विषयाणां पुस्तकानां प्रदर्शनं कृतम्। जयपुरस्य हिन्दीस्थानप्रकाशनस्य सहयोगेन आयोजितायां अस्यां प्रदर्शिन्यां विद्यार्थिभिः विशेषा रुचिः प्रदर्शिता। ते पुस्तकानि अपश्यन्, तेषां विषयाणां विषये सूचनां प्राप्तवन्तः तथा स्वाभिरुचिनां पुस्तकानां विषये उत्सुकतया सूचनां गृहीतवन्तः।

अस्मिन् अवसरे बङ्गाईग्राम-शोधनागारस्य पक्षतः विद्यालयेषु शैक्षणिकसंस्थासु च हिन्दीभाषायाः साहित्यस्य च प्रचारप्रसाराय क्रियमाणानां प्रयत्नानां विषये अपि सूचना प्रदत्ता। वक्तारः उक्तवन्तः यत् अङ्कीयमाध्यमानां वर्धमाने प्रभावे सति पुस्तकैः सह सम्बन्धः नियमितपठनस्य च अभ्यासः विद्यार्थिनां बौद्धिकस्य सृजनात्मकस्य च विकासस्य महत्त्वपूर्णां भूमिकां निर्वहति।

कार्यक्रमस्य समापनावसरे आयोजकैः विद्यार्थिभ्यः विद्यालयपरिवाराय च आभारः प्रकटितः। कार्यशालया पुस्तकप्रदर्शिन्या च विद्यार्थिनः हिन्दीभाषायाः अध्ययन-पठनयोः सृजनात्मकलेखनस्य च क्षेत्रे संयोजयितुं दिशि सार्थकप्रयत्नरूपेण स्वकीयां विशेषां छविं स्थापितवती।

Hindusthan Samachar / Divya Ranjan