परिश्रमेण सामूहिकप्रयत्नेन च कलावती स्वावलम्बनस्य कथां लिखितवती
पिथौरागढम्, ३० सेप्टेम्बरमासः (हि.स.)। पिथौरागढजनपदस्य बालाकोटनिवासिनी कलावतीदेवी अधुना ग्रामीणमहिला-सशक्तीकरणस्य स्वावलम्बनस्य च सशक्तम् उदाहरणं जातम् अस्ति। साधारणपरिवेशात् उद्गत्य सा स्वस्य साहसेन, परिश्रमेण दूरदृष्ट्या च न केवलं स्वजीविकायाः सु
उत्पादों के साथ बालाकोट की कलावती देवी।


पिथौरागढम्, ३० सेप्टेम्बरमासः (हि.स.)। पिथौरागढजनपदस्य बालाकोटनिवासिनी कलावतीदेवी अधुना ग्रामीणमहिला-सशक्तीकरणस्य स्वावलम्बनस्य च सशक्तम् उदाहरणं जातम् अस्ति। साधारणपरिवेशात् उद्गत्य सा स्वस्य साहसेन, परिश्रमेण दूरदृष्ट्या च न केवलं स्वजीविकायाः सुदृढमाधारं निर्मितवती, अपितु ग्रामस्य अन्याः महिलाः अपि रोजगारैः संयोजितवती।

जीवने अनेकासाम् आर्थिकानां सामाजिकानां च समस्यानां सत्त्वेऽपि कलावतीदेवी परिस्थितीनां पुरतः पराजयं न स्वीकृत्य स्वावलम्बिनी भवितुं सङ्कल्पं कृतवती। तस्याः उद्देश्यं केवलं स्वस्य आर्थिकस्थितेः सुदृढीकरणं नासीत्, अपितु ग्रामस्य महिलाभ्यः सम्मानजनक-रोजगारस्य आजीविकायाः च अवसरान् प्रदातुमपि आसीत्।

अन्ताराष्ट्रियकृषिविकासकोषस्य तथा मुख्यमन्त्री पुष्करसिंहधामीवर्यस्य नेतृत्वे राज्यसर्वकारस्य सहयोगेन सञ्चाल्य-मानायां ग्रामोत्थानपरियोजनायां महादेव-स्वायत्तसंघः, बालाकोटः, सामुदायिक-सङ्गठनाधारितोद्यमस्य अन्तर्गतं दुग्ध-व्यवसायाय आर्थिकसहयोगं प्राप्तवान्। उद्यमाय ग्रामोत्थानपरियोजनया षड्लक्ष-रूप्यकाणां सहायता, त्रिलक्षरूप्यकाणां धनागार-ऋणं तथा एकलक्षरूप्यकाणां सहभागिता महादेवस्वायत्तसंघेन कृता।

अनेन सहयोगेन कलावतीदेव्याः अध्य-क्षतायां महादेवस्वायत्तसंघेन सामूहिक-दुग्धोद्यमः प्रारब्धः। अधुना अयं उद्यमः ग्रामात् प्रतिदिनं प्रायः द्विशतलीटरपरिमितं दुग्धं सङ्गृह्य विपण्यं प्रति प्रेषयति। अनेन स्थानीय-दुग्धोत्पादकेभ्यः विपण्यस्य अवसरः प्राप्तः, ग्रामीणपरिवाराणां च आयः अपि वर्धमाना अस्ति।

अस्य उद्यमस्य एकः महत्त्वपूर्णः लाभः एषोऽपि अस्ति यत् अनेन ग्रामस्य अन्याभ्यां द्वाभ्यां महिलाभ्यां रोजगारः प्राप्तः। महिलाः अधुना आर्थिकरूपेण सशक्ताः भूत्वा स्वपरिवारस्य आयवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति।

कलावतीदेव्याः एषः प्रयत्नः केवलं दुग्धव्यवसायपर्यन्तं सीमितः नास्ति, अपितु महिला-नेतृत्वस्य, सामूहिकप्रयत्नस्य आर्थिकसशक्तीकरणस्य च प्रेरणादायिनी कथा अस्ति। तस्याः जीवनयात्रा दर्शयति यत् उचितावसरः, मार्गदर्शनं विभागीय-सहयोगश्च प्राप्य ग्रामीणमहिलाः स्वपरिवारेण सह सम्पूर्णसमुदायस्य आर्थिकस्थितेः सुदृढीकरणेऽपि महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan