Enter your Email Address to subscribe to our newsletters

- डॉ. मयङ्कचतुर्वेदी
स्वामी गोविन्द देव गिरि जी महाराजस्य आध्यात्मिकी दृष्टिः, राममन्दिर-आन्दोलनस्य अनुभवः, न्यासस्य नूतनं प्रशासनिकं दायित्वम्, वित्तीय-पारदर्शिता, मुख्य-कार्यकारि-अधिकारिणा सह समन्वयः, राममन्दिरस्य भाविनी भूमिका तथा च राष्ट्रनिर्माणं सदृशाः विषयाः अत्र अस्मिन् साक्षात्कारे भवतां सर्वेषां समक्षं प्रस्तूयन्ते।
प्रश्नः – श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य महामन्त्रिरूपेण भवतां नूतनं दायित्वं भवन्तः कीदृशं पश्यन्ति?
उत्तरम् – एषः मम कृते पदस्य अधिकारस्य वा विषयः नास्ति, पूर्ववदेव केवलं सेवायाः अवसरः अस्ति। श्रीरामजन्मभूमेः विषयः कोटिशः जनानाम् आस्थया सह सम्बद्धः अस्ति। राममन्दिरस्य निर्माणम् एकः ऐतिहासिकः चरणः आसीत्, किन्तु मन्दिरस्य व्यवस्था, तस्य गरिमा, समागच्छतां भक्तानां सौविध्यम् एतेन सह सम्बद्धाः व्यापिकाः प्रवृत्तयश्च सुव्यवस्थिताः करणीयाः, तदपि तावदेव महत्त्वपूर्णम् अस्ति। अहम् एतत् प्रभोः श्रीरामस्य सेवात्वेन राष्ट्रसेवात्वेन च पश्यामि।
प्रश्नः - भवन्तः पूर्वं न्यासस्य कोषाध्यक्षस्य दायित्वं वहन्तः आसन्। अधुना महामन्त्रिरूपेण भवतां भूमिका कथं परिवर्तिष्यते?
उत्तरम् - कोषाध्यक्षरूपेण मुख्यतया वित्तीय-अनुशासनेन, संसाधनानाम् आर्थिकव्यवस्थानां च सम्बद्धानि दायित्वानि आसन्। महामन्त्रिरूपेण कार्यक्षेत्रम् अधिकं व्यापकं वर्तते। न्यासस्य निर्णयानां क्रियान्वयनम्, विविधानां समितीनां व्यवस्थानां च मध्ये समन्वयः, प्रशासकीय-कार्याणां पर्यवेक्षणं मन्दिरेण सम्बद्धानां प्रवृत्तीनां गतिवर्धनं च अस्मिन् अन्तर्भवन्ति। प्रयासः भविष्यति यत् प्रत्येकस्यां व्यवस्थायां स्पष्टता, अनुशासनम् उत्तरदायित्वं च परिलक्ष्येत।
प्रश्नः - न्यासेन प्रथमतया एकाम् आधुनिक-व्यावसायिक-प्रशासनिक-व्यवस्थां सुदृढां कुर्वता भूतपूर्व-एयरमार्शल-जितेन्द्रमिश्र-महोदयः मुख्य-कार्यकारि-अधिकारी कृतः। भवन्तः एनां दृष्टिं कथं पश्यन्ति?
उत्तरम् - अद्यतने काले एतावतः बृहतः धार्मिक-सांस्कृतिक-केन्द्रस्य सञ्चालनम् अतीव व्यापकम् अस्ति। अत्र भक्तानां सङ्ख्या, सुरक्षा, तान्त्रिकी व्यवस्था, वित्तीय-प्रबन्धनं, सौविध्यानि अन्यानि च प्रशासकीय-आयामानि सन्ति, अतः आध्यात्मिक-दृष्टेः आधुनिक-प्रशासकीय-दक्षतायाश्च समन्वयः अनिवार्यः वर्तते। मुख्य-कार्यकारि-अधिकारिणः नियुक्तिः अस्यामेव दिशि एकं महत्त्वपूर्णं पदम् अस्ति। वयं सर्वे स्व-स्व-दायित्वानां माध्यमेन एकस्यैव उद्देश्यस्य पूर्तिं करिष्यामः।
प्रश्नः - किं धार्मिक-संस्थायाम् आधुनिक-प्रबन्धनस्य व्यावसायिक-प्रशासनस्य चावश्यकता वर्तते?
उत्तरम् - निश्चितमेव वर्तते। भारतीयपरम्परायां धर्मः व्यवस्था च कदापि परस्परं विरोधिनौ न आस्ताम्। रामराज्यस्य कल्पनायामपि सुशासनम्, अनुशासनम्, लोककल्याणम्, उत्तरदायित्वं च प्रमुखानि तत्त्वानि सन्ति। आधुनिक-प्रविधेः प्रबन्धन-साधनानां च उपयोगः यदि मन्दिरस्य सेवायै, भक्तानां सौविध्याय, पारदर्शकतायै च क्रियते तर्हि एतत् अस्माकं परम्परायाः अनुकूलमेव अस्ति।
प्रश्नः - जुलाई २०२६ तमे वर्षे उपहारस्य चौर्यस्य विवादस्यानन्तरं न्यासस्य वित्तीय-प्रशासनिक-व्यवस्थायाम् आक्षेपाः उत्थिताः। भवन्तः एतत् समग्रं प्रकरणं कथं पश्यन्ति?
उत्तरम् - यत्र बृहत्संख्यायां भक्ताः समागच्छन्ति तथा च प्रचुर-मात्रायां दानम् उपहाराश्च आयान्ति, तत्र व्यवस्थायाम् अत्यन्तं कठोरम् अनुशासनं पारदर्शकता चावश्यकी भवति। यदि कुत्रापि त्रुटिः सम्मुखीभवति तर्हि सा परिष्करणीया। कस्यापि जनस्य उद्देश्योपरि प्रमाणं विना आक्षेपः उचितः नास्ति, परन्तु व्यवस्थायाः न्यूनतानां दूरीकरणम् अस्माकमेव दायित्वम् अस्ति। अस्माकं लक्ष्यम् एतादृश्याः प्रणाल्याः निर्माणं भवेत् यस्यां सर्वा प्रक्रिया स्पष्टा, नियन्त्रिता, उत्तरदायित्वयुक्ता च स्यात्।
प्रश्नः - किं नूतनायां प्रशासनिक-व्यवस्थायां वित्तीय-पारदर्शिता अधिका दृढा विधास्यते?
उत्तरम् - पारदर्शकता कस्यापि सार्वजनिकी-धार्मिक-संस्थायाः कृते परमावश्यकी अस्ति। श्रीरामजन्मभूमि-तीर्थक्षेत्रेण सह कोटिशः जनानां भावाः सम्बद्धाः सन्ति, अतः धनस्य उपयोगः समुचितोद्देश्याय भवेत्, प्रत्येकं प्रक्रिया व्यवस्थिता स्यात्, संस्थागतस्तरे च उत्तरदायित्वं रक्षितं भवेत्, इयमेव अस्माकं प्राथमिकता भविष्यति।
प्रश्नः - भवतः जीवने धर्मग्रन्थानाम् अध्ययनं प्रवचनं च बहुपूर्वं प्रारब्धम् आसीत्। सप्तदशवर्षीयवयसि प्रथमकथाकरणतः आरभ्य अद्य राममन्दिरन्यासस्य दायित्वपर्यन्तस्य यात्राम् भवान् कथं पश्यति?
उत्तरम् - यदा मया सप्तदशवर्षीयवयसि प्रथमतया श्रीमद्भगवद्गीतायाः श्रीमद्भागवतस्य च उपरि वक्तुम् आरब्धं, तदा कल्पनापि न कृता यत् जीवनं मां प्रभोः श्रीरामस्य एवं प्रकारेण सेवां कर्तुम् अवसरं दास्यति। मम कृते इयं यात्रा वैयक्तिकी उपलब्धिः न भूत्वा भारतीय-ज्ञानपरम्परायाः शक्तेः सन्तानाम् आशीर्वादानां च यात्रा वर्तते। मया वेदाः, उपनिषदः, रामायणं, महाभारतं गीता च यावत् ज्ञातुं प्रयतितं, तावदेव एषः अनुभवः सञ्जातः यत् भारतीयसंस्कृतेः मूलसन्देशः समाजस्य मानवतायाश्च कल्याणेन सह सम्बद्धः अस्ति।
प्रश्नः - भवद्भिः वेदानाम् अध्ययन-प्रचाराय ‘महर्षि-वेदव्यास-प्रतिष्ठानस्य’ स्थापनापि कृता। अद्य नूतनायाः सन्ततेः कृते वेदाः भारतीयदर्शनं च कियत् प्रासङ्गिकम् अस्ति?
उत्तरम् - वेदाः अस्माकं कृते केवलं प्राचीनाः (आदि-अनादि) ग्रन्थाः न सन्ति, वस्तुतः तेषु जीवनस्य, प्रकृतेः, समाजस्य, चेतनायाश्च अवलोकनाय एका व्यापिका दृष्टिः अस्ति। वर्तमाना सन्ततिः आधुनिक-विज्ञानेन प्रौद्योगिक्या च सह अग्रे सरति। सा स्वमूलैः सह योजनीया अपि अस्ति। वेदाः, उपनिषदः गीता च मानवाय स्वजीवनस्य उद्देश्यं, कर्तव्यम्, आत्मानुशासनं च ज्ञातुं दृष्टिं प्रयच्छन्ति, अतः एतेषाम् अध्ययनम् अद्यापि तावदेव प्रासङ्गिकम् अस्ति, यावत् अतीते आसीत्।
प्रश्नः - राममन्दिर-आन्दोलनम् आरभ्य मन्दिरनिर्माणपर्यन्तं भवद्भिः दीर्घा यात्रा दृष्टा। अद्य यदा भव्यं मन्दिरं पुरतः अस्ति, तदा तां यात्रां कीदृशं स्मरन्ति?
उत्तरम् - इयं यात्रा अनेकासां सन्ततिनां सङ्कल्पस्य, सङ्घर्षस्य, साधनायाः, प्रतीक्षायाश्च यात्रा आसीत्। राममन्दिरस्य निर्माणं तेषाम् असङ्ख्यानां जनानां भावनानां परिणामः अस्ति यैः स्वजीवने एतत् सङ्कल्परूपेण दृष्टम्, अतः मन्दिरस्य भव्यतायाः अपेक्षया तस्य पृष्ठतः विद्यमाना भावना अधिका महत्त्वपूर्णा अस्ति। अस्माभिः एतत् स्मर्तव्यं यत् यदि रामस्य मन्दिरं निर्मितं, तर्हि रामस्य आदर्शाः अपि अस्माकं जीवने प्रतिष्ठापिताः भवेयुः।
प्रश्नः - २२ जनवरी २०२४ दिनाङ्के रामलल्लायाः प्राणप्रतिष्ठानन्तरं प्रधानमन्त्री नरेन्द्रमोदी भवतां हस्ताभ्यां प्रसादं स्वीकृत्य स्वस्य एकादश-दिनानाम् उपवासं समाप्तवान् आसीत्। तं क्षणं भवन्तः कथं स्मरन्ति?
उत्तरम् - सः अत्यन्तं भावपूर्णः ऐतिहासिकश्च क्षणः आसीत्। प्रधानमन्त्रिणा प्राणप्रतिष्ठायाः पूर्वं यादृशम् एकादशदिनानां व्रतं नियमपालनं च कृतं, तत् अस्य आयोजनस्य प्रति तस्य श्रद्धां प्रदर्शयति। यदा सः प्रसादं स्वीकृत्य उपवासं समाप्तवान्, तदा मम मनसि अयमेव भावः आसीत् यत् एषः कस्यचित् एकस्य जनस्य क्षणः नास्ति, अपि तु कोटिशः रामभक्तानाम् आस्थायाः क्षणः अस्ति।
प्रश्नः - किं भवन्तः मन्यन्ते यत् राममन्दिरस्य प्रभावः अयोध्यायाः अग्रे भारतस्य सामाजिके सांस्कृतिके च जीवने अपि भविष्यति?
उत्तरम् - यथार्थं ब्रूयात् चेत् भवताम् एषः प्रश्नः एव अनुचितः अस्ति, यतोहि शताब्दिभ्यः भारते एव न, विश्वस्य बहुषु देशेषु, वस्तुतः वक्तव्यं चेत् केनापि रूपेण समग्र-ब्रह्माण्डे प्रभोः श्रीरामस्य प्रभावः अयोध्यायाः सीमाः उल्लङ्घ्य पूर्वमेव विद्यमानः अस्ति। श्रीरामः भारतीयसमाजस्य नैतिकस्य सांस्कृतिकस्य च जीवनस्य आदर्शः अस्ति। राममन्दिरम् एतादृशं केन्द्रं भवति यतः सेवा, संस्कारः, संस्कृतिः, शिक्षा समाजं प्रति उत्तरदायित्वस्य च भावना निरन्तरम् ऊर्जां प्राप्नुयात्। रामस्य आदर्शाः अस्माकम् आचरणे द्रक्ष्यन्ते, अयमेव तु सन्तसमाजस्य प्रयासः भवति।
प्रश्नः - अयोध्यायां प्रतिदिनं बृहत्संख्यायां भक्ताः सम्प्राप्नुवन्ति। आगमिष्यति काले महत्तमा प्रशासकीय-आह्वानम् का भविष्यति?
उत्तरम् - भक्तानां वर्धमाना सङ्ख्या निश्चितरूपेण स्वसह बहूनि दायित्वानि आनयति। दर्शनव्यवस्था, सुरक्षा, स्वच्छता, यातायातम्, आवासः, प्रसादः, चिकित्सा अन्यानि च सौविध्यानि निरन्तरं श्रेष्ठतमानि करणीयानि। सहैव मन्दिरस्य आध्यात्मिकी गरिमा अयोध्यायाश्च सांस्कृतिक-परिचयः अपि अक्षुण्णः सुरक्षितश्च रक्षितव्यः, तदपि एकं कार्यम् अस्ति। अस्माकं प्रयासः एतादृश्याः व्यवस्थायाः निर्माणस्य अस्ति यस्यां भक्तः सौविध्येन सह आध्यात्मिकम् अनुभवमपि प्राप्नुयात्।
प्रश्नः - किं राममन्दिरं विश्वस्य प्रमुखम् आध्यात्मिकं सांस्कृतिकं च केन्द्ररूपेण विकासयितुं कापि व्यापिका दृष्टिः अस्ति?
उत्तरम् - यथा मया पूर्वमुक्तं यत् प्रभुः श्रीरामः भारतस्य सीमासु सीमितः नास्ति, सः विष्णुः अस्ति, विश्वस्य कणे-कणे व्याप्तः अस्ति। ततः परं जगतः अनेकेषु देशेषु रामकथायाः रामायणस्य च परम्परा अस्ति। अयोध्या एतादृशं केन्द्रं विधातव्या, यत्र विश्वं भारतस्य आध्यात्मिकीं सांस्कृतिकीं च दृष्टिं ज्ञातुं शक्नुयात्। एतदर्थं मन्दिरेण सह ज्ञानं, शोधकार्यं, संस्कृतिः, भारतीयभाषाः रामायणस्य च वैश्विकपरम्परा अपि पुरतः आनेतव्या।
प्रश्नः - भवतां मते रामराज्यस्य आधुनिकः अर्थः कः?
उत्तरम् - रामराज्यस्य अर्थं कस्यापि विशिष्ट-राजनीतिक-व्यवस्थायां सीमितं करणम् उचितं न भविष्यति। रामराज्यस्य मूलभावः अस्ति यत् शासने न्यायः भवेत्, समाजे विश्वासः भवेत्, जनेषु कर्तव्यबोधः स्यात्, समाजस्य निर्बलतमस्य जनस्य कल्याणाय चिन्ता भवेत्। रामः स्वयमेव सत्तायाः केन्द्रे तिष्ठन्नपि लोककल्याणं सर्वोच्चं मन्यते। सन्त-तुलसीदासस्य शब्देषु वक्तव्यं चेत्— “परहित सरिस धर्म नहिं भाई, पर पीड़ा सम नहीं अधमाई”। अद्य यदि वयं रामराज्यस्य चर्चां कुर्मः तर्हि एतानि मूल्यानि अस्माकं सार्वजनिके वैयक्तिके च जीवने अवतार्थानि। यत्र—
दैहिक दैविक भौतिक तापा। राम राज नहिं काहुहि ब्यापा॥
सब नर करहिं परस्पर प्रीती। चलहिं स्वधर्म निरत श्रुति नीती॥
इति दृश्येत।
अस्माभिः एतादृशः समाजः काम्यते, यत्र—
चारिउ चरन धर्म जग माहीं। पूरि रहा सपनेहुँ अघ नाहीं॥
राम भगति रत नर अरु नारी। सकल परम गति के अधिकारी॥
अर्थात् धर्मः स्वस्य चतुर्षु चरणेषु (सत्यं, शौचं, दया, दानं च) जगति परिपूर्णः स्यात्, स्वप्नेऽपि कुत्रापि पापं न भवेत्। पुरुषाः स्त्रियश्च सर्वे रामभक्तिपरायणाः भवेयुः, सर्वे च परम्-गतेः अधिकारिणः स्युः। यथा श्रीरामस्य राज्ये वर्णनम् आगच्छति—
अल्पमृत्यु नहिं कवनिउ पीरा। सब सुंदर सब बिरुज सरीरा॥
नहिं दरिद्र कोउ दुखी न दीना। नहिं कोउ अबुध न लच्छन हीना॥
सब निर्दंभ धर्मरत पुनी। नर अरु नारि चतुर सब गुनी॥
सब गुनग्य पंडित सब ग्यानी। सब कृतग्य नहिं कपट सयानी॥
अर्थात् न्यूनावस्थायां मृत्युः न भवति, न कस्मैचित् कापि पीडा भवति। सर्वेषां शरीराणि सुन्दराणि नीरोगाणि च सन्ति। न कोऽपि दरिद्रः, न दुःखी, न वा दीनः अस्ति। न कोऽपि मूर्खः, न च शुभलक्षणैः हीनः अस्ति। सर्वे दम्भरहिताः, धर्मपरायणाः, पुण्यात्मानश्च सन्ति। पुरुषाः स्त्रियश्च सर्वे चतुराः गुणवन्तश्च सन्ति। सर्वे गुणानाम् आदरं कर्तारः पण्डिताः तथा सर्वे ज्ञानिनः सन्ति। सर्वे कृतज्ञाः सन्ति, कपट-चातुर्यं कस्मिन्नपि नास्ति।
वस्तुतः आधुनिकेऽपि अर्थे भविष्येऽपि यः समयः स्वकाले आधुनिकः एव भविष्यति, तस्मिन्नपि समये रामराज्यस्य अर्थः एतादृशस्य समाजस्य व्यवस्थैव भविष्यति, यादृशं वर्णनं सन्त-तुलसीदास-कृते रामचरितमानसे वाल्मीकिरामायणे वा अस्माभिः दृश्यते।
प्रश्नः - भवद्भिः संन्यासस्य मार्गः चितः। एकस्य सन्तः कृते एतावती महती प्रशासकीय-दायित्वम् कियत् आव्हानात्मकम् अस्ति?
उत्तरम् - संन्यासस्य अर्थः संसारात् पलायनं नास्ति। भारतीयपरम्परायां संन्यासस्य अर्थः व्यापकं समाजं प्रति समर्पणमपि वर्तते। यदा किमपि दायित्वं धर्मस्य समाजस्य च सेवायै सम्मुखम् आगच्छति, तदा तस्मात् विमुखता संन्यासस्य भावना न भवति। आव्हानम् अस्ति, किन्तु आव्हानादधिकम् एषः सेवायाः अवसरः अस्ति। अस्मिन् सन्दर्भे भवन्तः श्रेष्ठतमेषु उदाहरणेषु आद्यशङ्कराचार्यस्य जीवनस्य अध्ययनमपि कर्तुं शक्नुवन्ति।
प्रश्नः - अद्यतनस्य यूनां कृते भवतां महत्तमो महान् सन्देशः कः?
उत्तरम् - युवानः स्वकीयाम् आधुनिकीं शिक्षां, विज्ञानं, तन्त्रज्ञानं च नीत्वा अग्रे गच्छन्तु, परन्तु स्वकीयाभिः सांस्कृतिकीभिः मूलाभ्याम् संलग्नाः भवन्तु। श्रीमद्भगवद्गीता अस्मान् कर्मणः, अनुशासनस्य, आत्मविश्वासस्य च सन्देशं यच्छति। युवानः यदि स्वजीवने ज्ञानं, चरित्रं, परिश्रमं राष्ट्रं प्रति उत्तरदायित्वं च स्थानं दास्यन्ति तर्हि भारतस्य शक्तिः बहुगुणिता भविष्यति; पुनश्च भारतं नाम ‘वसुधैव कुटुम्बकम्’, भारतं नाम ‘सर्वे भवन्तु सुखिनः’, भारतं नाम शान्तिः, सह-अस्तित्वं सद्भावश्च, भारतं नाम ‘अहिंसा परमो धर्मः’, भारतं नाम करुणायां शक्तिः शक्तौ च संयमः, भारतं नाम ज्ञानं, विज्ञानं मानवल्याणं च, भारतं नाम प्रकृत्या सह सन्तुलितं जीवनम्, भारतं नाम अनेकतायाम् एकता, भारतं नाम संस्कृतीनाम् आदरः विचाराणां च स्वतन्त्रता, भारतं नाम ‘चरैवेति-चरैवेति’—निरन्तरम् अग्रे गमनस्य सङ्कल्पः, भारतं नाम स्वमूलैः सह संयोज्य आधुनिकतां प्रति अग्रेसरमाणं राष्ट्रम्, भारतं नाम ‘सर्वजनहिताय सर्वजनसुखाय’, भारतं नाम च समग्र-मानवतां स्वपरिवाररूपेण मन्यमाना सनातनी चेतना वर्तते।
प्रश्नः - राममन्दिरस्य निर्माणानन्तरम् अधुना भवतां दृष्टौ अग्रिमं बृहत् लक्ष्यं किम् अस्ति?
उत्तरम् - मन्दिरस्य निर्माणम् एका महती उपलब्धिः अस्ति, किन्तु यात्रा अत्रैव न समाप्यते। मन्दिरम् एकं जीवन्तम् आध्यात्मिकं, सांस्कृतिकं सामाजिकं च केन्द्रम् अस्ति। भक्तेभ्यः श्रेष्ठा व्यवस्था, भारतीयज्ञानपरम्परायाः संरक्षणं, सेवाप्रवृत्तीनां विस्तारः, रामस्य आदर्शाणां समाजजीवनेन सह संयोजनेन अग्रे महतीनां दायित्वानां सततं वहनमेव तु निरन्तरता वर्तते। यावत् भवन्तः लक्ष्यस्य वार्तां कुर्वन्ति, प्रभुः अस्मान् यावत् आनीतवान्, अग्रेऽपि यत्र नेतुमिच्छति तत्र नेष्यत्येव, वयं तु प्रभोः दासाः स्मः, यत् अस्मात् शरीरात् कार्यं कारयितव्यं, तत् प्रभुः कारयतु।
प्रश्नः - अन्ते, महामन्त्रिरूपेण भवतां प्राथमिकता का भविष्यति?
उत्तरम् - मम प्राथमिकता स्पष्टा अस्ति: राममन्दिरस्य गरिमा, न्यासस्य व्यवस्थायाम् अनुशासनं पारदर्शकता च, भक्तानां सौविध्यं तथा च श्रीरामस्य आदर्शानुरूपं सेवा। राममन्दिरं कोटिशः जनानां विश्वासस्य प्रतीकम् अस्ति। अस्य विश्वासस्य रक्षा अस्माकं सर्वेषां सामूहिका दायित्वम् अस्ति। मन्दिरं भव्यं निर्मितम्, अधुना तदनुरूपा व्यवस्था सेवायाश्च उत्कृष्टता स्थापनीया, एतत् अस्माकम् अग्रिमं लक्ष्यं भवेत्। अस्माकं प्रयासः भविष्यति यत् अयोध्याम् आगच्छन् प्रत्येकः जनः केवलं दर्शनस्य स्मृतिं नीत्वा न प्रत्यागच्छेत्, सः प्रभोः श्रीरामस्य जीवनमूल्येभ्यः प्रेरणामपि गृहीत्वा इतः प्रतिनिवर्तेत।