स्वच्छता हि सेवा-अभियानस्य अन्तर्गतं उत्तररेलविभागे ‘अपशिष्टात् उपयोगीवस्तुनिर्माणम्’ तथा ‘अपशिष्टात् कलानिर्माणम्’ इति विषययोः आयोजनम्
नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। उत्तररेलविभागस्य विभिन्नैः एककविभागैः स्वच्छता हि सेवा-अभियानस्य अन्तर्गतं बुधवासरे ‘अपशिष्टात् उपयोगीवस्तु-निर्माणम्’ तथा ‘अपशिष्टात् कला-निर्माणम्’ इति कार्यक्रमः आयोजितः।अस्याः सृजनात्मकप्रयत्नस्य अन्तर्गतं र
कबाड़ से जुगाड़  एवं  कबाड़ से कला की थीम में बना


नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। उत्तररेलविभागस्य विभिन्नैः एककविभागैः स्वच्छता हि सेवा-अभियानस्य अन्तर्गतं बुधवासरे ‘अपशिष्टात् उपयोगीवस्तु-निर्माणम्’ तथा ‘अपशिष्टात् कला-निर्माणम्’ इति कार्यक्रमः आयोजितः।अस्याः सृजनात्मकप्रयत्नस्य अन्तर्गतं रेलकर्मचारिणः स्वप्रतिभायाः सामूहिक-भावनायाश्च परिचयं प्रदर्शयन्तः अनुपयोगिसामग्रीभ्यः आकर्षकाणि कलाकर्माणि निर्मितवन्तः। आलमबाग-डीजलशेड् तथा लुधियानास्थिते विद्युत्-रेलइञ्जिन-शेड् इत्यत्र रेलकर्मचारिभिः जलहस्तिनः, घटी तथा एतादृशीनि अनेकानि सुन्दराणि कलाकर्माणि निर्मितानि।

तथैव तुगलकाबादस्थिते डीजलशेड् तथा गाजियाबादस्थिते विद्युत्-रेलइञ्जिन-शेड् इत्यत्र रेलकर्मचारिभिः पुष्पपात्राणि तथा एतादृशीनि अन्यानि आकर्षकाणि कलाकर्माणि निर्मितानि।

उत्तररेलविभागस्य अनुसारम्, ‘अपशिष्टात् उपयोगीवस्तुनिर्माणम्’ तथा ‘अपशिष्टात् कलानिर्माणम्’ इत्यस्य मुख्योद्देश्यं कर्मचारिषु पर्यावरणस्य स्वच्छतायाश्च विषये जागरूकतां वर्धयितुं तथा ‘अपशिष्टात् कलानिर्माणम्’ इति अवधारणां प्रोत्साहितुम् अस्ति। एषः प्रयासः सन्देशं ददाति यत् समुचितचिन्तनेन, नवाचारेण, सृजनात्मकतया च अनुपयोगिनः व्यर्थाः इति मन्यमानानां वस्तूनामपि सार्थकम् उपयोगं कर्तुं शक्यते।

रेलविभागेन सूचितं यत् एतैः कलाकर्मभिः न केवलम् अपशिष्टसामग्री आकर्षक-रूपेण परिवर्तिता, अपितु पुनरुपयोगस्य, पर्यावरणसंरक्षणस्य तथा संसाधनानां समुचितोपयोगस्य प्रभावशाली सन्देशः अपि प्रदत्तः। विभिन्नविभागानां कर्म-चारिभिः स्वस्य निरन्तरकौशलेन, समर्पणेन, उत्कृष्टसामूहिकभावनया च एतानि कलाकर्माणि साकारतां नीतानि।

Hindusthan Samachar / Divya Ranjan