Enter your Email Address to subscribe to our newsletters


- ३१ डिसम्बरमासः २०२९ तः परं न कोऽपि मादकद्रव्यव्यापारी अवशिष्यते : अमितशाहः
- गृहमन्त्री अवदत्—मादकद्रव्यव्यापारस्य प्रोत्साहकाः पञ्जाबं मादकमुक्तं कर्तुं न शक्नुवन्ति
चण्डीगढम्, ३० सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे जालन्धरे ‘मादकमुक्त-पञ्जाब-यात्रायाः’ समापनावसरे आयोजितायां जनसभायां अवदत् यत् भारतीयजनतापक्षः अग्रिमं पञ्जाबविधानसभानिर्वाचनं मादकद्रव्यस्य विषयम् आधारीकृत्य करिष्यति। तेन उक्तं यत् यदि पञ्जाबे भाजपासर्वकारः भवति तर्हि ३१ डिसेम्बरमासः २०२९ पर्यन्तं राज्यं सम्पूर्णतया मादकमुक्तं कर्तुं लक्ष्यं निर्धारितम् अस्ति। एतत् भाजपादलेन घोषितं निर्वाचनलक्ष्यं प्रतिज्ञा च अस्ति।
अमितशाहः आम-आदमीपक्षस्य सर्व-कारस्य उपरि पञ्जाबे मादक-द्रव्यसमस्यां निवारयितुं विफलतायाः आरोपं कृतवान्। मुख्यमन्त्रिणं भगवन्त-मानं लक्ष्यीकृत्य तेन उक्तं यत् ये जनाः मादकद्रव्यव्यापारं निवारयितुं न शक्नुवन्ति, ते पञ्जाबं मादकमुक्तं कर्तुं न शक्नुवन्ति।
केन्द्रीयगृहमन्त्री दिल्लीस्थस्य कथितस्य मद्यचौर्यप्रकरणस्य उल्लेखमपि कृत्वा आम-आदमीपक्षस्य सर्वकारं प्रति आलोचनां कृतवान्। तेन उक्तं यत् ये मादकद्रव्यव्यापारं प्रोत्साहयन्ति, तेभ्यः पञ्जाबं मादकमुक्तं कर्तुं अपेक्षा कर्तुं न शक्यते।
गृहमन्त्रिणा पञ्जाबस्य सैनिकानां कृषकाणां च भूमिकायाः उल्लेखं कृत्वा उक्तं यत् राज्यस्य सैनिकाः देशस्य सुरक्षायां महत्त्वपूर्णं योगदानं ददति तथा कृषकाः देशस्य अन्नभाण्डारं पूरयितुं महतीं भूमिकां निर्वहन्ति। तेन दावितं यत् पञ्जाबसर्वकारेण कृषकेभ्यः २६ सस्येभ्यः न्यूनतमसमर्थनमूल्यं प्रदातुं प्रतिज्ञा कृता आसीत्, किन्तु सा पूर्णा न कृता। तेन उक्तं यत् भाजपासर्वकारस्य निर्माणानन्तरं कृषकैः सम्बद्धानां विषयाणां स्थायी-समाधानाय कार्यं करिष्यते।
अमितशाहः युवकेषु मादकद्रव्यसमस्यायाः उल्लेखं कृत्वा अवदत् यत् मादक-द्रव्यसेवनस्य कारणेन कस्यचित् प्रतिभाशालिनः युवकस्य अकालमृत्युः अत्यन्तं दुःखदः विषयः अस्ति। तेन युवकेभ्यः भाजपायाः समर्थनस्य आह्वानं कृत्वा उक्तं यत् तेभ्यः मादकद्रव्यस्य जालात् बहिः आनेतुं तथा रोजगारस्य समुचितावसरान् प्रदातुं प्रयत्नः करिष्यते।केन्द्रीयगृहमन्त्री उक्तवान् यत् विगतेषु त्रिषु वर्षेषु पञ्जाबसर्वकारेण मादकद्रव्य-विरोधसम्बद्धा एकापि सभा न आयोजिता। जालन्धरे नारकोटिक्स्-कण्ट्रोल-ब्यूरो इत्यस्य कार्यालयस्य स्थापनायै केन्द्रसर्वकारस्य प्रस्तावः राज्यसर्वकारेण निरस्तः कृतः। तेन महिलानां सुरक्षामपि गम्भीरं विषयं कथयित्वा उक्तं यत् भाजपासर्वकारस्य निर्माणे सति अस्याः प्राथमिकतया विचारः भविष्यति।
गृहमन्त्रिणा पञ्जाबसर्वकारस्य कथित-विज्ञापनविनियोजनं, भूमिसम्बद्धाः विषयाः, पोषणाहारसम्बद्धानि प्रकरणानि च उल्लिख्य आलोचना कृता। तेन मुख्यमन्त्रिणः भगवन्तमानस्य विज्ञापनेषु कृतव्ययस्य, पञ्चविंशतिलक्ष-रोजगार-प्रदानस्य प्रतिज्ञायाः तथा राज्ये षोडश चिकित्सामहाविद्यालयानां स्थापनस्य कथनस्य विषये प्रश्नाः पृष्टाः। अवैधखननात् प्राप्तस्य आयस्य विषयेऽपि तेन राज्यसर्वकारं प्रति प्रश्नाः पृष्टाः।
अमितशाहः अवदत् यत् भाजपासर्वकारस्य निर्माणे सति मादकद्रव्यव्यापारिभ्यः विरुद्धं कठोरकार्यवाही करिष्यते। तेन पञ्जाबस्य मातृभ्यः भगिनीभ्यश्च आश्वासनं दत्त्वा उक्तं यत् ३१ डिसेम्बरमासः २०२९ तः परं तेषां बालकेभ्यः ‘चिट्टा’ इति मादकद्रव्यं प्रदातुं कोऽपि व्यापारी न अवशिष्यते तथा मादकद्रव्यव्यापारिणः कारागारे प्रेषयिष्यन्ते।
उल्लेखनीयं यत् भाजपायाः ‘मादकमुक्त-पञ्जाब-यात्रा’ १८ सेप्टेम्बरमासे आरब्धा आसीत्। दलस्य अनुसारं चतुर्षु चरणेषु आयोजितया अस्याः यात्रया पञ्जाबस्य सर्वाणि ११७ विधानसभानिर्वाचनक्षेत्राणि आच्छादितानि तथा प्रायः ४,००० किलोमीटर दूरं यात्रा कृता। जालन्धरे अमितशाहस्य जनसभया यात्रायाः समापनम् अभवत्।
Hindusthan Samachar / Divya Ranjan