प्रधानमन्त्री ०१ अक्टोबरमासे संघलोकसेवायोगस्य शताब्दीसमारोहे सम्मिलितः भविष्यति
नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अत्र भारतमण्डपे संघलोकसेवायोगस्य शताब्दीसमारोहे सम्मिलितः भविष्यति। सः प्रातः ११ वादने समारोहं सम्बोधयिष्यति। अस्मिन् अवसरे प्रधानमन्त्री संघलोक-सेवायोगस्य शताब्द्याः उपलक्ष्
पंतप्रधान नरेंद्र मोदी


नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अत्र भारतमण्डपे संघलोकसेवायोगस्य शताब्दीसमारोहे सम्मिलितः भविष्यति। सः प्रातः ११ वादने समारोहं सम्बोधयिष्यति। अस्मिन् अवसरे प्रधानमन्त्री संघलोक-सेवायोगस्य शताब्द्याः उपलक्ष्ये स्मारकं मुद्रां डाकचिटिकां च विमोचयिष्यति। ततः प्रधानमन्त्री ‘भारते संघलोकसेवायोगस्य राज्यलोक-सेवायोगानां च नीतिनिर्माणं प्रभावितवन्तः १०० महत्त्वपूर्णाः निर्णयाः’ इति पुस्तकस्य अपि विमोचनं करिष्यति।

प्रधानमन्त्रीकार्यालयस्य अनुसारम् एषः कार्यक्रमः वर्षपर्यन्तं आयोजितानां शताब्दीसमारोहाणां समापनकार्यक्रमः भविष्यति। संघलोकसेवायोगस्य स्थापना १९२६ तमे वर्षे अभवत्। स्थापनायाः शतवर्षपूर्तेः उपलक्ष्ये वर्षपर्यन्तं विविधाः कार्यक्रमाः आयोजिताः। एतेषां कार्यक्रमाणाम् आरम्भः गतवर्षस्य ०१ अक्टोबरमासे अभवत्।

समारोहे देशस्य विभिन्नेभ्यः प्रदेशेभ्यः राज्यलोकसेवायोगानाम् अध्यक्षाः सदस्याश्च, भारतसर्वकारस्य वरिष्ठाः अधिकारीगणाः, शिक्षाविदः, संघलोक-सेवायोगस्य अधिकारिणः तथा अन्ये सम्बन्धितजनाः सम्मिलिताः भविष्यन्ति।

संघलोकसेवायोगस्य पक्षतः ३० सेप्टेम्बरमासे तथा ०१ अक्टोबरमासे द्विदिवसीयः कार्यक्रमः आयोजितः भविष्यति। प्रथमदिने भारतमण्डपे ‘शताब्दीसमारोहः-मन्थनम्’ इति कार्यक्रमः आयोजितः भविष्यति। अस्मिन् प्रख्यातवक्तॄणां सम्बोधनानन्तरं विविधेषु विषयेषु परिचर्चाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan