Enter your Email Address to subscribe to our newsletters

- तरङ्गशक्तिः-२०२६ युद्धाभ्यासः : ४० सहस्रपादोच्छ्राये आकाशे इन्धनपूरणस्य अभ्यासः
जोधपुरम्, ३० सेप्टेम्बरमासः (हि.स.)। राजस्थानस्य जोधपुरनगरे प्रचलिते बहुराष्ट्रीयवायुसेनायुद्धाभ्यासे ‘तरङ्गशक्तिः-२०२६’ अष्टदेशानां ६० तः ८० पर्यन्तं युद्धविमानानि एकस्मिन् काले उड्डयनं करिष्यन्ति। भारतस्थितेन फ्रान्स-देशस्य राजदूतावासेन एतद्विषये सूचना प्रदत्ता। अस्मात् पूर्वं युद्धाभ्यासस्य चतुर्थे दिने बुधवासरे भारतीयवायुसेनायाः सुखोई-युद्धविमानेन फ्रान्सदेशस्य राफेल-युद्धविमानस्य नेतृत्वं कृतम्।युद्धाभ्यासे फ्रान्सदेशस्य एयरबस् ए-४००एम् तथा एयरबस ए-३३० बहुभूमिकीय-इन्धनपूरक-परिवहन-विमानम् अपि सम्मिलितम् अभवत्। अभ्यासकाले प्रायः ४० सहस्रपादोच्छ्राये ए-४००एम् तथा राफेल-युद्धविमानयोः मध्ये आकाशे इन्धनपूरणप्रक्रियायाः अभ्यासः कृतः। वायुसेनायाः दीर्घदूरगामिषु अभियानेषु तथा आकाशे इन्धनपूरण-क्षमतायाः दृष्ट्या अयं अभ्यासः महत्त्वपूर्णः मन्यते।
१२ अक्टोबरमासपर्यन्तं प्रचलिष्यमाणे अस्मिन् युद्धाभ्यासे अमेरिकादेशस्य एफ्-३५ युद्धविमानानि तथा भारतस्य तेजस-विमानानि च सम्मिलितानि सन्ति। एतदतिरिक्तं विभिन्नप्रकारकाणि परिवहनविमानानि सहायकविमानानि च अस्मिन् भागं गृह्णन्ति। अभ्यासे भागं गृह्णन्त्यः वायुसेनाः संयुक्ताभियानानां, वायुसङ्घर्षकौशलस्य तथा विभिन्न-विमानानां परस्परसमन्वयस्य अभ्यासं कुर्वन्ति।
विदेशीयनिरीक्षकैः बेङ्गलूरुनगरे रक्षा-संस्थानानां भ्रमणं कृतम्
‘तरङ्गशक्तिः-२०२६’ इत्यस्मिन् भागं गृह्णतां देशानां निरीक्षकाः बेङ्गलूरुनगरे भारतस्य प्रमुखरक्षायान्तरिक्षप्रौद्योगिकी-सम्बद्धानां च उद्योगसंस्थानां भ्रमणं कृतवन्तः। मित्रदेशानां २८ तः अधिकैः निरीक्षकै-रस्मिन् अवसरे भारतस्य स्वदेशीय-रक्षोत्पादनक्षमता तथा ‘मेक् इन् इण्डिया’ इत्यस्य अन्तर्गतं विकसिताः प्रौद्योगिक्यः समीपतः दृष्टाः।
प्रतिनिधिमण्डलेन हिन्दुस्तान् एयरो-नॉटिक्स लिमिटेड्, भारत इलेक्ट्रॉनिक्स् लिमिटेड् तथा नेशनल एयरोस्पेस लेबोरेटरीज इत्येतानि संस्थानानि दृष्टानि। प्रतिनिधिमण्डले इण्डोनेशिया, थाईलैण्ड्, ब्राजील्, पेरू, अल्जीरिया, नाइजीरिया, आइवरी कोस्ट् तथा मालदीव इत्यादिदेशानां अधिकारिणः सम्मिलिताः आसन्।
भ्रमणकाले विदेशीयप्रतिनिधिभ्यः भारत-स्य स्वदेशीय-अन्तरिक्षविमान-प्रौद्योगि-क्याः, रक्षाप्रणालीनां तथा उन्नत-प्रौद्योगिकीयक्षमतानां विषये सूचना प्रदत्ता। एतादृशानाम् औद्योगिकभ्रमणानाम् उद्देश्यं बहुराष्ट्रीयसैन्याभ्यासेन सह सहभाग-देशानां मध्ये रक्षासहयोगस्य तथा प्रौद्योगिकीयविनिमयस्य अवसरान् वर्धयितुम् अपि अस्ति।
Hindusthan Samachar / Divya Ranjan