धनुर्विद्यायां सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य विद्यार्थिभिः रजतपदकं विजितम्।
— लक्ष्ये एकाग्रता, अनुशासनं निरन्तराभ्यासश्च सफलतायाः कुञ्जिकाः — कुलपतिः वाराणसी, ३० सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थितस्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य विद्यार्थिनः शिक्षया संस्कृताध्ययनेन च सह क्रीडाक्षेत्रेऽपि प्रतिभ
3526907d2c1c51ab1ddbe2c0525f305d_1399045611.jpg


— लक्ष्ये एकाग्रता, अनुशासनं निरन्तराभ्यासश्च सफलतायाः कुञ्जिकाः — कुलपतिः

वाराणसी, ३० सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थितस्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य विद्यार्थिनः शिक्षया संस्कृताध्ययनेन च सह क्रीडाक्षेत्रेऽपि प्रतिभां प्रदर्श्य विश्वविद्यालयस्य गौरवं वर्धितवन्तः। बाराबङ्कीनगरे २६ सितम्बरतः २९ सितम्बर २०२६ पर्यन्तम् आयोजितायां राज्यस्तरीयधनुर्विद्याप्रतियोगितायां विश्वविद्यालयस्य त्रयः छात्राः अक्षतसिंहः, विशालसिंहः तथा अर्जुनसिंहः च दलस्पर्धायां उत्कृष्टं प्रदर्शनं कुर्वन्तः रजतपदकं विजितवन्तः।

अन्तिमस्पर्धायां विश्वविद्यालयस्य एतत् त्रयम् बागपतनगरस्य सुदृढदलस्य विरुद्धं कठिनं प्रतिस्पर्धां कृतवान्। क्रीडकैः लक्ष्ये एकाग्रता, सटीकं लक्ष्यवेधनम् तथा परस्परसामञ्जस्यं प्रदर्शयद्भिः स्पर्धा रोमाञ्चपूर्णा कृता। अस्याः उपलब्धेः कारणेन विश्वविद्यालयपरिवारे हर्षस्य वातावरणं वर्तते। बुधवासरे विश्वविद्यालयस्य जनसम्पर्काधिकारी शशीन्द्रमिश्रेण एषा सूचना प्रदत्ता।

सः अवदत् यत् अक्षतसिंहः विशालसिंहश्च साहित्यविभागस्य छात्रौ स्तः, अर्जुनसिंहश्च योगविषये डिप्लोमापाठ्यक्रमस्य अध्ययनं करोति। अस्याम् उपलब्धौ अन्यद् गौरवपूर्णम् अध्यायं योजितं यत् विशालसिंहस्य चयनं कनिष्ठराष्ट्रीयधनुर्विद्याप्रतियोगितायै उत्तरप्रदेशस्य दलस्य कृते जातम् अस्ति।

विश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा त्रिभ्यः क्रीडकेभ्यः शुभकामनाः प्रदाय अवदत् यत् क्रीडा विद्यार्थिषु केवलं शारीरिकक्षमतायाः विकासं न करोति, अपि तु अनुशासनम्, एकाग्रता, धैर्यम्, आत्मविश्वासः लक्ष्ये च समर्पणम् इत्यादीन् जीवनमूल्यान् अपि विकसितान् करोति। सः अवदत् यत् धनुर्विद्या तादृशः क्रीडाप्रकारः अस्ति, यस्मिन् लक्ष्ये दृष्ट्या सह मनसः मस्तिष्कस्य च एकाग्रतापि आवश्यकाऽस्ति। विश्वविद्यालयस्य विद्यार्थिभिः राज्यस्तरीयप्रतियोगितायां रजतपदकस्य प्राप्तिः तेषां प्रतिभायाः, परिश्रमस्य निरन्तराभ्यासस्य च परिणामः अस्ति।

कुलपतिः प्रो. बिहारीलालशर्मा अवदत् यत् विश्वविद्यालयस्य परिचयः ज्ञानस्य, संस्कृतस्य, भारतीयज्ञानपरम्परायाः च सह विद्यार्थिनां सर्वाङ्गीणविकासेन भवेत्। सः क्रीडकानाम् उपलब्धिं प्रेरणादायिनीम् उक्त्वा अवदत् यत् यथा धनुर्धरः लक्ष्ये एकाग्रः भवति, तथैव विद्यार्थिनः अपि स्वजीवनस्य लक्ष्यं प्रति समर्पिताः सन्तः निरन्तरं प्रगतिं कुर्वन्तु। विशालसिंहस्य कनिष्ठराष्ट्रीयप्रतियोगितायै उत्तरप्रदेशस्य दले चयनितत्वे प्रसन्नतां व्यक्तं कुर्वन् सः तस्य उज्ज्वलभविष्याय मङ्गलकामनां कृतवान्।

विश्वविद्यालयस्य धनुर्विद्याप्रशिक्षकः आदित्यकुमारः क्रीडकानां प्रदर्शनस्य प्रशंसां कुर्वन् अवदत् यत् त्रयः अपि क्रीडकाः प्रतियोगितायां पूर्णेन अनुशासनेन आत्मविश्वासेन च क्रीडित्वा उत्कृष्टं सामञ्जस्यं प्रदर्शितवन्तः। अन्तिमस्पर्धायां बागपतनगरस्य दलस्य विरुद्धं ते स्वक्षमतायाः प्रभावी प्रदर्शनं कृतवन्तः। निरन्तराभ्यासेन कठिनपरिश्रमेण च एते क्रीडकाः आगामीषु प्रतियोगितासु अधिकं श्रेष्ठं प्रदर्शनं करिष्यन्ति इति सः विश्वासं प्रकटितवान्।

विश्वविद्यालयपरिवारेण अक्षतसिंहाय, विशालसिंहाय, अर्जुनसिंहाय च रजतपदकप्राप्तये तथा विशालसिंहस्य कनिष्ठराष्ट्रियप्रतियोगितायै उत्तरप्रदेशस्य दले चयनितत्वे हार्दिकाः शुभकामनाः प्रदत्ताः तथा तेषां उज्ज्वलभविष्याय मङ्गलकामना कृता।

Hindusthan Samachar / Dheeraj Maithani