देशस्य विभिन्नप्रदेशेभ्यः सहस्रशः महिलाकृषिकार्यकर्त्र्यः दिल्लीनगरम् आगताः, जैविककृषेः स्वावलम्बनस्य च महत्त्वे बलम्
नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। भारतीयकृषकसङ्घस्य अखिलभारतीय-महिलाकृषिकार्यकर्त्रीणां सम्मेलनम् बुधवासरे दिल्लीस्थे इन्दिरागान्धी-इन्डोर-क्रीडाङ्गणे आयोजितम्। देशस्य विभिन्नराज्येभ्यः ग्रामेभ्यश्च सहस्रशः महिलाकृषिकार्यकर्त्र्यः सम्मेलने भागं
महिला कार्यकर्ताओं के सम्मेलन समारोह में मौजूद पदाधिकारी


नवदिल्ली, ३० सेप्टेम्बरमासः (हि.स.)। भारतीयकृषकसङ्घस्य अखिलभारतीय-महिलाकृषिकार्यकर्त्रीणां सम्मेलनम् बुधवासरे दिल्लीस्थे इन्दिरागान्धी-इन्डोर-क्रीडाङ्गणे आयोजितम्। देशस्य विभिन्नराज्येभ्यः ग्रामेभ्यश्च सहस्रशः महिलाकृषिकार्यकर्त्र्यः सम्मेलने भागं गृहीतवत्यः। गोपूजनस्य, भगवतः बलरामस्य पूजनस्य तथा ध्वजारोहणस्य अनन्तरं ‘वयं भारतस्य नार्यः वैभवं वर्धयिष्यामः’ इति उद्घोषेण कार्यक्रमस्य शुभारम्भः अभवत्।

उद्घाटनसत्रं सम्बोधयन्ती कोटा-कृषिविश्वविद्यालयस्य कुलपतिः प्रो. विमला डूङ्कवालः अवदत् यत् भारतीयनारी सृजनस्य संवर्धनस्य च उभयोः कार्ययोः समर्था अस्ति। नारीम् अन्नपूर्णायाः दुर्गायाश्च स्वरूपं वर्णयन्ती सा अवदत् यत् नारी अधिकारैः सह स्वकर्तव्येभ्यः अपि प्राथमिकतां ददाति।

अखिलभारतीयमहिलासंयोजिका मञ्जुदीक्षितः अवदत् यत् देशे महिलाकृषकाणां पारम्परिकं स्वरूपं परिवर्तयितुम् आवश्यकता अस्ति। अद्य महिलाकृषिकाः नूतनप्रौद्योगिक्या नवीनोत्साहेन च परिवारस्य देशस्य च विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति। सम्मेलनम् अखिलभारतीयाध्यक्षः के. साईरेड्डी, उपाध्यक्षः सुशीला विश्नोई तथा मन्त्री वीनासतीशः अपि सम्बोधितवन्तः।समापनसत्रे भारतीयकिसानसङ्घस्य अखिलभारतीयमहामन्त्री मोहिनी-मोहनमिश्रः अवदत् यत् २०४७ तमे वर्षे विकसितस्य स्वस्थस्य च भारतस्य लक्ष्यं ‘गो-कृषि-वाणिज्यम्’ तथा जैविककृषिं विना पूर्णं न भवितुम् अर्हति। तेन विषमुक्तकृषेः, रोगमुक्तसमाजस्य तथा अमृततुल्याहाराधारितनीतेः निर्माणाय आह्वानं कृतम्।

अखिलभारतीयसङ्घटनमन्त्री दिनेश-कुलकर्णी अवदत् यत् स्वावलम्बिन्याः आत्मनिर्भरायाः च महिलाकृषिकायाः सम्माननेन ग्रामस्य समाजस्य परिवारस्य च गौरवं वर्धिष्यते।

उत्कृष्टकार्यं कृतवत्यः महिलाकृषिकाः सम्मानिताः

सम्मेलने विभिन्नक्षेत्रेषु उत्कृष्टकार्यं कृतवत्यः महिलाकृषिकाः सम्मानिताः। गो-कृषि-वाणिज्यक्षेत्रे महाराष्ट्रस्य सुनन्दासायसिङ्गः, जैविककृषिक्षेत्रे पश्चिमबङ्गस्य दीपालीओरांवः तथा बीजसंरक्षणक्षेत्रे गुजरातस्य कमलाबेन् च सम्मानिताः।

पशुपालनक्षेत्रे पश्चिमबङ्गस्य अम्बा कालिन्दी तथा पम्पागराई, रोजगार-सृजनक्षेत्रे बिहारस्य पुष्पासिंहः तथा खाद्यप्रसंस्करणक्षेत्रे ओडिशायाः मायासिन्हा महापात्रा एवं पश्चिमबङ्गस्य सुलता चटर्जी तथा शुक्ला बैरागी सम्मानं प्राप्तवत्यः।

पारम्परिकवेषभूषया लोकसंस्कृत्या च समायोजनस्य वातावरणम्

सम्मेलने देशस्य विभिन्नभागेभ्यः आगताः महिलाकृषिकाः स्वकीयाभिः पारम्परिक-वेषभूषाभिः शोभिताः आसन्। महिलाभिः विभिन्नासु भाषासु लोकगीतानि सांस्कृतिकनृत्यानि च प्रस्तुतानि। अनेन इन्दिरागान्धी-क्रीडाङ्गणे भारतस्य सांस्कृतिकवैविध्यस्य ‘विविधतायाम् एकता’ इत्यस्य च मनोहरं दृश्यं दृष्टम्।

सम्मेलनस्य विशेषता एषा आसीत् यत् अत्र सम्मिलिताः अनेकाः महिलाकृषिकाः स्वव्ययेन रेलयानादियात्रायाः चिटिकाः क्रीत्वा दिल्लीनगरम् आगतवत्यः। विभिन्नसत्रेषु ताभिः कृषिक्षेत्रसम्बद्धानां समस्यानां विषये चर्चा कृता तथा एतासां समस्यानां समाधानाय सर्वकारस्य ध्यानाकर्षणम् अपि कृतम्।

कार्यक्रमे राष्ट्रीयस्वयंसेवकसङ्घस्य अखिलभारतीयसम्पर्कप्रमुखः रामलालः, राष्ट्रसेविकासमितेः अखिलभारतीय-सहसम्पर्कप्रमुखा ऋतुशर्मा तथा भारतीय-किसानसङ्घस्य वरिष्ठपदाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan