Enter your Email Address to subscribe to our newsletters

नवदिल्ली,05 सितंबरमासः (हि.स.)।
केन्द्रीय-शिक्षामन्त्री प्रह्लाद-जोशिना अस्मिन् वर्षे राष्ट्रिय-शिक्षक-पुरस्कारेण सम्मानितैः शिक्षकैः सह संवादः कृतः। सः उक्तवान् यत् शिक्षकाः राष्ट्रस्य भविष्यस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। शिक्षकैः बालकाः तादृशरूपेण सज्जीकर्तव्याः येन ते २०४७ तमं वर्षं यावत् विकसित-भारतस्य निर्माणे स्वकीयम् योगदानं दातुं शक्नुयुः।
प्रह्लाद-जोषी-वर्यः उक्तवान् यत् विद्यार्थिनः राष्ट्रस्य सर्वप्रमुखाः सम्पत्तयः सन्ति। अतः तेषां विकासः केवलं पुस्तकीय-ज्ञानपर्यन्तं सीमितः न भवेत्, अपितु तेषां सर्वांगीण-व्यक्तित्वस्य निर्माणम् आवश्यकम् अस्ति। सः शिक्षकान् विद्यार्थिषु ज्ञानस्य, कौशलस्य, आत्मविश्वासस्य सद्गुणानां च विकासं कर्तुम् आहूतवान्।
केन्द्रीय-शिक्षामन्त्रिणा राष्ट्रिय-शिक्षक-पुरस्कारेण सम्मानितानां शिक्षकाणां योगदानस्य अनुभवस्य च प्रशंसा कृता। सः उक्तवान् यत् शिक्षकाणां परिश्रमः नवाचाराश्च देशस्य शिक्षा-व्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
अस्मिन् अवसरे उभौ शिक्षा-राज्यमन्त्रिणौ जयन्त-चौधरी तथा डॉ. सुकान्त-मजूमदारौ अपि उपस्थितौ आस्ताम्।
---------------
Hindusthan Samachar / Dheeraj Maithani