Enter your Email Address to subscribe to our newsletters

रायपुरम्, 6 सितंबरमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य रविवासरे बिलासपुरे रायपुरे च आयोजितेषु तीजा-पोरा-तिहारकार्यक्रमेषु सम्मिलिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य अपराह्णे १:२५ वादने रायपुरतः बिलासपुरस्य कृते प्रस्थास्यति तथा अपराह्णे २:०५ वादने बिलासपुरं प्राप्स्यति।
मुख्यमन्त्री सायः बहतराईस्थिते बी.आर. यादव-आन्तरिकक्रीडाङ्गणे आयोजिते तीजा-तिहारकार्यक्रमे सम्मिलिष्यति। कार्यक्रमस्य अनन्तरं मुख्यमन्त्री सायः सायं ३:४५ वादने बिलासपुरतः रायपुरस्य कृते प्रस्थास्यति।
रायपुरं प्रत्यागत्य मुख्यमन्त्री सायः सायं ६:०० वादने कबीरनगरस्य दशहराक्रीडाङ्गणे आयोजिते तीजा-पोरा-तिहारकार्यक्रमे सहभागं करिष्यति। कार्यक्रमानां समये सः प्रदेशवासिभ्यः तीजा-पोरा-तिहारस्य शुभकामनाः अपि प्रदास्यति।
Hindusthan Samachar / Dheeraj Maithani