Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 सितंबरमासः (हि.स.)।
लोकसभाध्यक्षः ओमबिरला सोमवासरे फरीदाबादनगरे द्विदिवसीयस्य अखिलभारतीयक्षमतानिर्माणकार्यशालायाः उद्घाटनं करिष्यति। अयं कार्यक्रमः “लैङ्गिकउत्तरदायिशासनम्” इति विषये आधारितः भविष्यति। अयं कार्यक्रमः फरीदाबादनगरस्य ताजसूरजकुण्डविरामगृहे राष्ट्रियमहिलायोगस्य पक्षतः आयोजयिष्यते।
इयं राष्ट्रियकार्यशाला महिलाप्रतिनिधीनां राजनैतिकक्षमतानां नेतृत्वक्षमतायाश्च वर्धनस्य उद्देशेन प्रारब्धा रणनीतिकपहलः अस्ति। अस्याः कार्यशालायाः उद्देश्यं पञ्चविंशतिराज्येभ्यः आगतानां द्विशताधिकानां महिला-विधायिकानां विशेषप्रशिक्षणं प्रदातुं वर्तते। येन विधायीप्रक्रियाणां, नीतिनिर्माणस्य, प्रभावीसञ्चारस्य, वार्ताकौशलस्य तथा समावेशिनेतृत्वस्य विषये तासां बोधः अधिकं सुदृढः भवेत्।
अस्मिन् अवसरे विशेषातिथिरूपेण हरियाणस्य मुख्यमन्त्री नायबसिंहसैनी, राष्ट्रियमहिलायोगस्य अध्यक्षा विजया राहाटकरः तथा अन्ये गणमान्याः व्यक्तयः अपि सम्मिलिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani