मीरजापुरे उप निबंधन कार्यालय भवनस्य भूमिपूजनं, राज्यमंत्री रवीन्द्र जायसवालोऽकरोत् शिलान्यासम्
- आधुनिक सुविधाभिः युक्तेन भवननिर्माणेन जनेभ्यो मेलिष्यति उत्तमपंजीयनस्य व्यवस्था मीरजापुरम्, 06 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) मुद्राङ्कः न्यायालयशुल्कं च तथा पञ्जीकरणविभागस्य रवीन्द्रजायसवालः रविवासरे मीरजा
उप निबंधक कार्यालय सदर के भवन का शिलान्यास करते करते राज्यमंत्री रवीन्द्र जायसवाल व अन्य।


- आधुनिक सुविधाभिः युक्तेन भवननिर्माणेन जनेभ्यो मेलिष्यति उत्तमपंजीयनस्य व्यवस्था

मीरजापुरम्, 06 सितंबरमासः (हि.स.)।

उत्तरप्रदेशस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) मुद्राङ्कः न्यायालयशुल्कं च तथा पञ्जीकरणविभागस्य रवीन्द्रजायसवालः रविवासरे मीरजापुरजनपदे पञ्जीकरणविभागसम्बद्धानां प्रस्तावितानां नवीनभवनानां निर्माणस्य दिशि महत्त्वपूर्णं पदक्षेपं कुर्वन् उपमहानिरीक्षकपञ्जीकरणस्य, सहायकमहानिरीक्षकपञ्जीकरणस्य तथा उपपञ्जीयककार्यालयस्य सदरस्य भवनस्य भूमिपूजनं कृत्वा शिलान्यासं कृतवान्। कार्यक्रमे जनप्रतिनिधिभिः सह पञ्जीकरणविभागस्य अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

भूमिपूजनशिलान्यासकार्यक्रमस्य समये राज्यमन्त्री उक्तवान् यत् पञ्जीकरणविभागः सामान्यजनैः प्रत्यक्षरूपेण सम्बद्धः महत्त्वपूर्णः विभागः अस्ति। भूमेः, गृहस्य अन्येषां च सम्पत्तीनां पञ्जीकरणसम्बद्धकार्याणां कृते बहवः जनाः पञ्जीयककार्यालयेषु आगन्तुं बाध्यन्ते। अतः कार्यालयभवनानां उत्तमं सुविधाजनकं च भवितुम् आवश्यकम् अस्ति। नवीनभवनस्य निर्माणेन अधिकारिभ्यः कर्मचारिभ्यश्च कार्यकरणाय उत्तमं वातावरणं प्राप्स्यते, तद्वत् सामान्यनागरिकेभ्यः अपि सुविधाः उपलब्धाः भविष्यन्ति।

सः उक्तवान् यत् सर्वकारः सर्वकारीयकार्यालयान् आधुनिकसुविधाभिः सम्पन्नान् कर्तुं नागरिकेभ्यः च पारदर्शिकाः सुगमाश्च सेवाः प्रदातुं निरन्तरं कार्यं करोति। पञ्जीकरणकार्यालयेषु आगच्छतां जनानां अनावश्यकः कष्टः न भवेत् तथा च तेभ्यः निर्धारितसमये सेवाः उपलब्धाः कर्तुं शक्येरन्, एतदर्थं कार्यालयानां व्यवस्थाः सुदृढाः क्रियन्ते।

कार्यक्रमे मड़िहानविधानसभाक्षेत्रस्य विधायकः रमाशङ्करसिंहपटेलः, पहाड़ीविकासखण्डस्य प्रमुखः इन्द्रबहादुरपाण्डेयः, अपरजिलाधिकारी वित्तं राजस्वं च विनोदकुमारसिंहः इत्येते पञ्जीकरणविभागस्य अधिकारिभिः सह उपस्थिताः आसन्। अधिकारिभिः प्रस्तावितभवननिर्माणसम्बद्धाः सूचनाः अपि प्रदत्ताः।

शिलान्यासकार्यक्रमस्य समये विभागीयाधिकारिभिः राज्यमन्त्रिणे कार्यालयस्य वर्तमानव्यवस्थायाः तथा पञ्जीकरणकार्यसम्बद्धानां विषयाणां च सूचना प्रदत्ता। नवीनभवनस्य निर्माणेन विभागीयकार्याणां सञ्चालनं सुलभं भविष्यति तथा पञ्जीकरणसम्बद्धाः सेवाः अधिकं सुव्यवस्थितरूपेण सञ्चालयितुं शक्यन्ते इति अपेक्षा व्यक्तीकृता।

अस्मिन् अवसरे उपमहानिरीक्षकपञ्जीकरणः, सहायकमहानिरीक्षकपञ्जीकरणः, उपपञ्जीयकः सदरः इत्यादयः पञ्जीकरणकार्यालयस्य सर्वे अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani