Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 06 सितंबरमासः (हि.स.)।
उपराष्ट्रपतिः सी.पी. राधाकृष्णनः रविवासरे असमप्रदेशम् आगतवान्। गुवाहाटीविमानपत्तने राज्यपालः लक्ष्मणप्रसादाचार्यः तथा मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा च तस्य स्वागतं कृतवन्तौ।
उपराष्ट्रपतिः स्वस्य असमप्रदेशभ्रमणस्य अवधौ गुवाहाटीनगरे स्थितस्य गीतानगरमहाविद्यालयस्य स्वर्णजयन्तीसमारोहे सम्मिलिष्यति।
-----------
Hindusthan Samachar / Dheeraj Maithani