Enter your Email Address to subscribe to our newsletters

गुवाहाटी, ०८ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा केन्द्रीयमन्त्रिणे गिरिराजसिंहाय जन्म-दिनस्य हार्दिक्य: शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तं यत् गिरिराजसिंहः भारतस्य वस्त्रक्षेत्रस्य पुनरुत्थानाय, पारम्परिक-हस्ततन्तुवर्धनाय तथा स्थानीयानां वयनकाराणां शिल्पिनां च सशक्तीकरणाय महत्त्वपूर्णानां प्रयासानां नेतृत्वं कुर्वन् अस्ति।
डॉ. सर्मणा तस्य जन्मदिनस्य अवसरे मातुः कामाख्यायाः श्रीमन्तशङ्करदेवस्य च श्रीचरणयोः तस्य दीर्घायुष्याय, स्वस्थाय सफलाय च जीवनाय प्रार्थना कृता।
Hindusthan Samachar / Divya Ranjan